This page has not been fully proofread.

अष्टाविंशः सर्गः ।
 
अहो विदग्धः सुग्रीवो यत्त्वामित्थमचेतसम् ।
अङ्कुरं वालिनोऽस्माभिरुन्मूलयितुमिच्छति ॥ ८४
अस्मासु वालिपुत्रोऽहमिति वादी न लज्जसे ।
दास्यं दाशरथावित्थं गतः परमविद्विषि ॥ ८५ ॥
त्वया ह्यङ्गद पुत्रेण मित्रं मे दिवि नन्दति ।
पितृव्ये पितृवैरस्य शक्त्यैकान्त्यमुपेयुष ॥ ८६ ॥
युक्तोऽरिसंश्रयः पूर्व शिशोरशरणस्य ते ।
सनाथोऽस्यधुनाऽस्माभिः प्रतिप्रहर वैरिणि ॥ ८७ ॥
तारया किमपि स्त्रीत्वात् कृतं नूनमसांप्रतम् ।
यत्तस्माज्जठराज्जाल्म जातस्त्वमरिनन्दनः ॥ ८८ ॥
जाने वाली नँ रामेण न सुग्रीवेणँ केवलम् ।
तयोस्त्वयाऽऽत्तदास्येन दस्युना विनिपातितः ॥ ८९ ॥
 
अस्मत्सङ्ग समुद्भूतं निकृष्टनरसंश्रयात् ।
त्वया विलुप्तं जगति यशो बालिश वालिनः ॥ ९० ॥
निगीर्णः कर्णपरुषं भाषमाणः पुरः पुरा ।
सुहृद्भिर्बिधृतेनापि दूतो धनपतेर्मया ॥ ९१ ॥
 
मुक्तोऽसि वालिनः सख्याद्गच्छ तिष्ठन्न जीवसि ।
कुतः प्रतिनिविष्टेषु मुहूर्तमपि नः क्षमा ॥ ९२ ॥
गिरस्ते रामदूतस्य श्रुताः परिषदाऽनया ।
इदं ब्रूहि वयं भूत्वा तापसं कपिसंसदि ॥ ९३ ॥
अकालहरणादेव किं काकुत्स्थ विकत्थसे ।
नन्वॉनीतः प्रसह्य त्वं कृतान्तैनास्मदन्तिकम् ॥ ९४ ॥
सालाग्र संप्राप्तमँपि क्षुद्रभावादनास्थया ।
शलभोत्थमिवास्माभिः कपियूथमुपेक्षितम् ॥ ९५ ॥
 
9. A भक्त्येवासमुपेयुषि 13. A लिनि । ३. A सुप्रीवेणच ।
६. A त्वमन्तके । ७. A पात ।
 
२४९
 
गावा