This page has not been fully proofread.

अष्टाविंशः सर्गः ।
 
अहं दौत्येन रामस्य रावण त्वामुपस्थितः ।
शृणु श्रवणपेयानि तद्वाक्यानि मुखेन मे ॥ १२ ॥
प्राप्तास्त्ववारपर्यन्तमक्षौहिण्यो वनौकैसाम् ।
अभ्युत्थानत्वरौशून्यः किं रावण भवानयम् ॥ १३ ॥
 
अनागतानागमय पृच्छापृष्टान्विपश्चितः ।
चिन्तयाचिन्तितं भूयो दत्तस्ते रावण क्षणः ॥ १४ ॥
स्वैरमहाय मन्त्रेण तन्त्रेण च यदिच्छासे ।
कुरु तत्सर्वमस्मासु पश्चाद्द्रयँसि नः क्रमम् ॥ १५ ॥
विलोक्य चेदातभरं गतः कृपणतामास ।
ब्रूहि द्रविणमात्मीयं सदृशं प्रार्थ्यसे तर्तैः ॥ १६ ॥
न संभृतं सैन्यहविर्न भृतो दक्षिणादरः ।
परमार्थाय वैराग्निं किमारब्धो रणाध्वरः ॥ १७ ॥
आतंमर्पय सौभ्रात्रं विवृणुष्व विभीषणे ।
आकारगुप्तेर्न फलं शिथिलँस्ते रणादरः ॥ १८ ॥
शमः समधिके शत्रौ पाण्डित्यं न भयं विदुः ।
को विक्रमः पतङ्गस्य पततः प्रततेऽनले ॥ १९ ॥
पुलस्त्यपौत्रस्य तमस्तव नैवोपपद्यते ।
सापि मन्ये परीणामं गता ते निकषा निशा ॥ २० ॥
प्रकृत्यमित्रा न वयं न च दूरान्तैरौकसः ।
मूलमुत्खन वैरस्य शमस्य फलमाप्नुहि ॥ २१ ॥
प्रतापम्लापनोऽन्तर्धिरयमद्य न केवलम् ।
अशुक्लकारणारब्धप्राणत्यागोऽपि ते नयँः ॥ २२ ॥
 
चिरमास्स्व विनीतात्मा किमनर्थेषु धावास ।
 
न त्वामुच्छेत्तुमिच्छामश्छिन्ने कारणकानने ॥ २३ ॥
 
२४३
 
१. B पाग. २. BCD दिवौकसः । ३. B किया ४. BCD टा ५. तरं BD६. BD प्यमेव तत् ।
७. C दत्तो। Dवृ । ८. CD दा ९. BD न्त । १०. शिशिर ११. BC युज्य । १२. A वि । १३. AC
तवदूरी । १४ CD स्तापनो १५, A तमः ।