This page has not been fully proofread.

सप्तविंशः सर्गः ।
 
युवा स वज्रांशुविशालमौलिर्ज्वलनुभाभ्यां मणिकुण्डलाभ्याम् ।
विवेश विद्याधरवर्त्मनाऽरेः पुरीं निरुद्धावनिलोकमार्गाम् ॥ ७२ ॥
अज्ञातपातः प्रतिहारपालैरुरःस्थलेन प्रणुदन प्रवीरान् ।
सभासदां संजनितेन्द्रशङ्को लङ्काधिपस्य प्रसभं पुरोऽभूत् ॥ ७३ ॥
ततः स रेजेऽरुणवक्त्रबिम्ब: कदम्बकेषु क्षणदाचराणाम् ।
आकस्मिकालोकभयद्रुतेषु तमस्सु पूषेव निशावसाने ॥ ७४ ॥
गतः स दग्ध्वा नगरीं हनूमानस्यापि शिष्योन्वैयमेव कोऽपि ।
इत्यूचुरास्यैः परिशोषवद्भिः तमीक्षमाणाः क्षणदाचरेन्द्राः ॥ ७५ ॥
 
स्वयं समाख्याय सं वालिस्नुः सन्त्रासमृकेषु निशाचरेषु ।
मुहूर्तमातिथ्यविनीतमूर्तो जगद्दिषि द्वेषमिवोत्ससर्ज ॥ ७६ ॥
पितृवधवैरविमोक्षनिमित्तं नियतमुपागतवानयमस्मान् ।
वितथवितर्कजडे हृदि हृष्यन्निति जगदन्तकरः स जगाद ॥ ७७ ॥
अयमपरोऽस्मदधीशदुरन्तः किमपि करिष्यति वानरवर्ष्मा ।
सचिवगणः क्षणदाचरभर्तुः स्फुटामति चेतास वाचमुवाच ॥ ७८ ॥
 
नाश्चर्यमावहति कस्य चराचरेऽस्मिन् श्रीहारवर्षनृपचन्द्रमसः प्रभावः ।
येनानिशं ललितकोमलकाव्यमूर्तेः सृष्टोऽभिनन्दकुमुदस्य महाविकासः ॥
"ते मेघमुक्तमपि न स्तुवते सुधांशुं तेषां मनो न रमते मकरध्वजेऽपि ।
सर्वारिवीरविजयप्रसृतप्रसत्तिः श्रीहारवर्षजगतीपतिरीक्षितो यैः ॥
 
२४१
 
इत्यभिनन्दकृतौ रामचरिते महाकाव्ये अङ्गददौत्यागमनो नाम सप्तविंशतितमः सर्गः ॥
 
१. BD नवांशुक्क्रां C उदंशु । २. A यात्रः । ३. A वशेषा वयमे । ४. A only reads this
Bloka. ५. BCDE read
 
aloka.