रामचरितम् /270
This page has not been fully proofread.
२३८
अद्भदौत्यागमनो नाम
अथैनमास्थानगतं शशास माता हितं माल्यवता सत्य ।
जहास तस्या अपि स प्रमादी वात्सल्यकल्लोलकलं वचस्तत् ॥ ३६ ॥
पुनः शनैः प्रेक्ष्य स माल्यवन्तमुवाच मातामहमाहवोत्कः ।
श्रुतं यदुक्तं दुहितुर्मुखेन स्वेनोच्यतामार्य मुखेन कार्यम् ॥ ३७ ॥
सहोदरौ मालिसुमालिनौ ते हतौ चतुर्बाहुभृताऽरिणेति ।
व्याप्त्याऽनयैवार्य किमेष नप्ता विशङ्कयते विंशतिवाहुदण्डः॥ ३८ ॥
आश्वासयन्नास्स्त्र मुहूर्तमेतामिहैव मातामह मातरं मे ।
स एष यावन्नरवानराणां निर्गत्य निर्ग्रन्थनमातनोति ॥ ३९ ॥
जगाद भीतां जननीं स भूयः किमम्ब कार्पण्यमिदं तवाद्य ।
तस्यैकवीरस्य सुमालिनस्त्वं रक्षः पतेस्तार्क्ष्यजितस्तनूजा ॥ ४० ॥
वीरानलैकारणितामपीत्थमुपेतया किं जननि त्वयौजः ।
पितुः कुलस्योज्झितमादरेण गृहीतमेतत्पतिवंशदैन्यम् ॥ ४१ ॥
न पक्षपातः स्वपितामहे में मातर्नमोऽस्तु मैपितामहाय ।
चराचरेऽस्मिन् प्रथमं प्रतीतो हेतिप्रकर्षादिव येँः महोतः ॥ ४२ ॥
स माल्यवन्तं पुनरप्यवादीद्विलोक्य वैलक्ष्यमिवापनेष्यन् ।
विवर्तते विप्रियतापराधस्तथाविधानामपि मातृबन्धौ ॥ ४३ ॥
मान्योऽसि मातामह शाधि संयत्प्रकारमेव प्रयतः शृणोमि ।
तवापि नाकर्णयतीतरत्त कर्णावली दुर्ललिता ममेयम् ॥ ४४ ॥
किं वृद्धभावाद्विकृतिस्तवेयं यदुज्झिताऽऽत्मप्रकृतिः प्रदीप्ता ।
स्थिताऽथवा मय्यधुनाऽपि डिम्भसंभावना नतरि पवित्रे ॥ ४५ ॥
प्रविश्यतां मातरयं नमामि प्रसीद पुत्रेषु जयोद्धुरेषु ।
मोदस्व मातामह मद्भुजानां वीर्याद्भुतं वैरिषु वीक्षमाणः ॥ ४६ ॥
आयुः श्रियं च द्वितयं दशास्यः तयोर्निभेनात्मगतं विसृज्य ।
द्विषामिवाह्वाननिमित्तमाराद्वारेषु रक्षोनिवहान्ययुत ॥ ४७ ॥
१. [) न । २. A मस्त्वत् । ३. Cयो । ४. A यत्प्र ५. BCD वावहि ।