रामचरितम् /268
This page has not been fully proofread.
अभदौत्यागमनो नाम
सुव्यक्तसर्वापघनं घनाजिस्थलीरजोरूषितमौलिबन्धम् ।
रामस्य तेनोपहृतं भटेन शिरः क्षरत्फेनिलरक्तधारम् ॥ १२ ॥
उद्द्वीक्ष्य सद्यः क्षतकण्ठनालं मुखारविन्दं रघुनन्दनस्य ।
हा नाथ किं जातमिदं तवेति पपात सा मोहविलुप्तसंज्ञा ॥ १३ ॥
मायेयमार्ये दशकन्धरस्य प्रत्येषि किं सत्यमिदं प्रियस्व ।
आश्वासयत्तां त्रिजटेति जोषं सुशीतलैः सूनृतशीकरौघैः ॥ १४ ॥
अत्रान्तरे रामचमूनिवेशाद्विवेश तत्र क्षणदान्तशंसी ।
प्रगल्भवैतालिकचाटुगर्भो भेरीमृदङ्गानकशङ्खनादः ॥ १५ ॥
स किङ्करौघश्चकितश्चकम्पे दशाननः स्वं भवनं विवेश ।
माया गतेति त्रिजटा जहर्ष ददर्श सीता सुमुखीर्दशाशाः ॥ १६ ॥
आश्रर्यमासीत्तदसौ तदा यद्विनीतवेषः कुशपूतपाणिः ।
अगच्छदृत्विग्भिरनुप्रयातः प्रभातकाला हुतयेऽन्यगारम् ॥ १७ ॥
सन्तर्प्य सोऽग्नित्रितयं त्रिलोकीसंहारदीर्घा ध्वरदीक्षितात्मा ।
निमन्त्रयामास निजप्रवीरानुपस्थितापूर्वमहाजिभोज्यः ॥ १८ ॥
अथाजगाम प्रथमं प्रमाथी वरूथिनीभिर्गणनातिगाभिः ।
ततोऽविशत्कम्पकरः सुराणामकम्पनो नाम निशाचरेन्द्रः ॥ १९ ॥
व्यकूर्दतोच्चैः कवची पिशाचः क्षपाचरेन्द्रस्य मुदं वितन्वन् ।
आगच्छति स्म ध्वनयन् दशाशाः स्वनैः शठः स्यन्दनरासभानाम् ॥ २० ॥
प्रकामंशाखामृगमांसगर्धान्महोदरः स्वोदरमु॒न्ममार्ज ।
विशिष्यमाणं रणहर्षवेगान्मही महापार्श्वभरं न सेहे ॥ २१ ॥
वियद्वितन्वन्विघसो विवेश घसोऽग्रहीद्विग्रहवेषमुग्रम् ।
रेजे रथस्योपरि रश्मिकेतुरदीपयत्तं पुर्नरनिकेतुः ॥ २२ ॥
ददेऽन्तकायापि भयं भ्रुकुठ्या देवान्तकः स्वान्तिकमागताय ।
लिलेख दंष्ट्राशिखरैः समन्तान्नरान्तकः क्रान्तसभाँन्तरालः ॥ २३ ॥
१. CD येथाः । २. BC ज्याम् । ३. BC श । ४, Dर्वा । ५. A मुप्रवेषम् । ६. CD ड्रारम ।
७. B शिरा D शता ।