रामचरितम् /267
This page has not been fully proofread.
सप्तविंशः सर्गः ।
सप्तविंशः सर्गः ॥
तदैव ताभ्यामथ रावणाय रामस्य निर्विघ्नजिताम्बुराशेः ।
स शक्तिसंपत्प्रचयश्चराभ्यामाचर्यगर्भीर्वचनैः शशंसे ॥ १॥
तस्यावलेपस्तिमितादरस्य पुरः पुरस्कारविवर्जिताभ्याम् ।
उद्योगमावेद्य रिपोस्तमुग्रं तूष्णींबभूवेऽतिचिराच्चराभ्याम् ॥ २ ॥
पप्रच्छ मिथ्यैव स मन्त्रिवृद्धान् दुर्बुद्धिजम्बालनदीनिविष्टः ।
अतिष्ठतै स्वात्मनिपातमिच्छन्न तेषु तीर्येष्विव निर्मलेषु ॥ ३ ॥
ददर्श भूयः शुकमस्तशूकश्चख्यौ स रामस्य वचांसि तानि ।
भीतैस्तपस्वीति बदन् सहासं स सारणेनाभिदघे यथार्थम् ॥ ४ ॥
जग्राह नासौ वचनं शुकस्य हितैषिणो नापि च सारणस्य ।
रुरोध रोषोच्चलितानमात्यान्नुनोद चाभीष्टनिषेधनित्यान् ॥ ५ ॥
विसृज्य वीरान्विमनाः स सायं प्रासादमारुह्य सह स्पशाभ्याम् ।
ददर्श तद्दाशरथेर्दशास्यः सैन्यं सुवेलस्य तटे निविष्टम् ॥ ६ ॥
आख्याञ्च संख्याञ्च समुद्भवञ्च बलञ्च बुद्धिञ्च विशुद्धताञ्च ।
स्थूलोच्चयानूचतुरुत्तमानां तौ रावणाय प्लवगेश्वराणाम् ॥ ७॥
ययौं न पर्यन्तमनी किनीनामुद्रीक्षमाणः स रिपोस्तदानीम् ।
अत्रातरन्म्लानमुखप्रसाद : प्रासादशृङ्गान्मनसाऽऽकुलेन ॥ ८ ॥
विसृज्य तौ रामशिरः स तूर्ण निर्मातुमादिश्य कलाविदग्धन् ।
ययौ समीपं जनकात्मजायास्ततस्तदादर्शित हर्षवेगः ॥ ९ ॥
उवाच तां वारिनिधेरपारे नक्तं निविष्टस्य तवाद्य पत्युः ।
श्रुतं त्वया जानकि यन्मदीयैः प्रजङ्घसुप्तनमुखैः प्रयुक्तम् ॥ १० ॥
पतिप्रभावस्थिरनिश्चयायाः संप्रत्ययार्थ दुहितुः स भूमेः ।
आनेतुमार्द्रं द्विषतः शिरस्तज्ज्वालामुखं किङ्करमादिदेश ॥ ११ ॥
१. BCDE अनिर्वृतः । २. D तप । ३. A दुःखान् C D दस्तान् ।
२३५