This page has not been fully proofread.

षड़ेंशः सर्गः ।
 
विजितोऽम्बुधिः परिगता नगरी रणसंशयस्थमधुनाऽभिमतम् ।
तदुपैतुं कोऽपि दरैदृष्टभयं द्विषमस्मदर्थमभिसाँधयितुम् ॥ ८४ ॥
द्विषतोऽभियातिं शतमेकचर: सुभटोऽनभीष्टनिजदेहतृणः ।
दयितप्रभूतपरिवारधनः प्रधनानलं विशति नैव सुधीः ॥ ८५ ॥
 
गुरुदूतवाक्यहतिभिर्भवतां स निशाचरचरणयोः पततु ।
स्पृहयामि हन्तुमधुना विशिखैर्न तमाततायिनमपि प्रतम् ॥ ८६ ॥
 
प्रलघाँवपि द्विषति बुद्धिमतामभिकामकृत्प्रशम एव गुणः ।
अधिकृत्य मृत्युरसिकानबुधानुदितो गुणान्तरविधिर्गुरुभिः ॥ ८७ ॥
 
शमबुद्धयः समरभारहरां: शँमिता कुतः प्रतिघवेगभृताम् ।
तदुशन्ति पौरुषमुदारधियः प्रथमं जयन्ति हृदि येन रुषम् ॥ ८८ ॥
 
अपि निश्चयाध्यवसितारिवधाः मृधमुत्तमाः परिहरन्ति पुरः ।
अधमास्तु भीतिरयमेव वदन्त्यनिबद्धभूरिभटवादनिभात् ॥ ८९ ॥
 
तदरेर्विचिन्तयत मन्त्रवशादवसानमप्रहरणोपहितम् ।
तदकौशलं विपुलरक्तनदां जनयन्ति येन वसुधामबुधाः ॥ ९० ॥
 
नियतं न तस्य नयतन्त्रमिदं मनसि प्रमादरसिकस्य रिपोः ।
प्लवगा: प्रसीदत नखाशनयः कृतकृत्यतां दधति संप्रति वः ॥ ९१ ॥
नयत क्षपामवाहिताः परितस्त्यजतार्जवं लवगवीरगणाः ।
धृतशङ्कमाध्वमितरेतरमप्यरयः प्रपञ्चचतुराः सविधे ॥ ९२ ॥
 
उपरुध्यतामियमतीव पुरी कृतमाहवोत्सव विलोलतया ।
रिपुरेष दुर्विषहवामविधिस्त्वरतां रणाय मरणावधये । ९३ ॥
 
क्रियतां पुरश्चरममूर्ध्वमधः प्रधनाय सैन्यरचनासु रयः ।
रजनीति नैव शयितव्यमिह च्छलयोधिनामनियतः समयः ॥ ९४ ॥
 
२३३
 
१. Aति । २. A कपि D वर ३. BCD स्तदर्पमतिसन्ध । ४. A तु । ५.Aस। ६. A थम
 
७. A याद ८. A स ९. D सहा १०. A समता ११. A धामधर । D वामविधि ।
 
३०