This page has not been fully proofread.

समुद्रलङ्घनो नाम
मणिरत्नसानुषु निवेशसह सह तैर्वलीमुख चमृपतिभिः ।
अचलद्विभीषणमतेन शनैरचलं सुवेलमनु दाशरथिः ॥ ७२ ॥
 
विनिवेभ्य तत्र निजसुनुबलं सकलं प्रकाशितसमस्तगुहः ।
स्वयमंशुभिः कतिपयैरपरं गिरिमध्युवास दिवसाधिपतिः ॥ ७३ ॥
शिखरान्तगैरपि' सवेपथुभिः कपियूथपोद्गममयो मधुभिः ।
ददृशे दशाननपुरस्यै शिखिप्रतिपन्नमूल इव सोऽवनिभृत् ॥ ७४ ॥
असमोऽयमेव महिमाऽस्य गिरेः स जगाम यत्प्लवगसैन्यभरः ।
भृशर्मांचितैतदुपकण्ठतलः स्थलकाञ्चनाम्बुरुहखण्डतुलाम् ॥ ७५ ॥
शिखराणि मूलमुपकण्ठतंटीरटवीश्च वीक्ष्य विततस्तुतिभिः ।
अपि शीलितामरनिकेतन: प्लवगैः सुवेलमनु मुमुदे" ॥ ७६ ॥
न्यविशन्त नीरधितटे बहवो बहवः सुवेलमवसन् परितः ।
बहवः प्रवेष्टुमनसोऽरिपुरीं हरयोऽन्तरा रुरुधिरे सचिवैः ॥ ७७ ॥
निपुणैर्विभीषणनिगूढचरैः स्वपुरोन्मुखौ दशमुखमणिधी ।
गलितातपेऽहान कपिध्वजिनीकटकान्तनिर्गमपथे विधृत ॥ ७८ ॥
कपिभिः कृपारसदरिद्रकरैपुषि प्रयुक्तबहुविकृती ।
सदसि स्मितानुपदमृढघृणो भगवानभाषत सपत्नचरौ ॥ ७९ ॥
अभयं निषीदतममी गमिताः पृतनेश्वरैरसहना हरयः ।
प्रभुकारणादगणितात्यययोयुवयोर्वधात्क इव नो महिमा । ८० ॥
 
अवगाढ एष यदि सैन्यभरः प्रतिगम्यतां प्रतिभयं न पुनः ।
अबुधं प्रबोधयतमात्मपतिं निपतत्यनाथ इव किं विषमे ॥ ८१ ॥
अधुनाऽपि सोऽर्पयतु राजसुतां भजतां विभीषणमधीशमिव ।
सुखमस्तु मुक्तवति गर्वमरौ न शराः पतन्ति रघुवंशवाम् ॥ ८२ ॥
इति तौ विसृज्य दशकण्ठचरौ सचिवानुवाच विनतप्रभृतीन् ।
रणरागवेगचलितप्लवगे सदसि स्वधैर्यसदृशं स वचः ॥ ८३ ॥
 
१. BC नुगैरिव २. BC चयो । ३. A दुरन्त ४. BC भि । ५. A वलिभृत् BD निभृतः ।
 
६. A धनमारि । ७. CD तंत्र । ८. BD हे । ९. A धिग।