रामचरितम् /263
This page has not been fully proofread.
षड्विंशः सर्गः ।
हरिवीरवृन्दसकलाङ्गहृतान् परिगृह्य पाणितलयोः कलया ।
जनितेन्द्रजालमचलानुदधौ निदधे नलस्तरलमीनकुले ॥ ६० ॥
निपतन्ममज्ज न गरिष्ठमपि प्रचचाल न क्वचिदलग्नमपि ।
अभिकामसंपदमतीत्य बभौ नलशिल्पसंनिमितमद्रिकुलम् ॥ ६१ ॥
अतिशातमुक्ष्ममतिवासिमुखः शिखराणि संस्थितिसमान्यकरोत् ।
न जहार कालमणुमप्यचलैर्जलधिं बबन्ध सुरशिल्पितः ॥ ६२ ॥
च्युतसङ्कन्टत्वविकटत्वकथा: सुपथाऽऽशु तेन नलशिल्पभुवा ।
अजयन्नजातपरिखेदकणाः कपयः कृपीटनिधिमेकपदे ॥ ६३ ॥
बलितूर्यभिन्नसुरवन्दिरवां हविषा करम्वितनृमांसचरुम् ।
शुचिरत्नरश्मिचयमध्यलसद्विकरालकालपिशिताशिरुचम्
॥ ६४ ॥
बहिरप्यजस्रमभिरामशतैर्दिशतीं दृशोर्निगडबन्धमित्र ।
प्रतिरुन्धतीं प्रतिगृहं प्रभया नभसो विनिर्गमपथं परितः ॥ ६५ ॥
सनबच्छदामरुणरत्नकरैः कुसुमोत्तरां शशिमणिद्युतिभिः ।
फलशालिनीमुपरि हेमघटैरवीति रोपितमतिं पुरतः ॥ ६६ ॥
विपुलोत्पताकघवलाश्मगृहामुरुहेमसालपरिवेषवतीम् ।
२३१
मणिवप्रदीपरिखावलयां विमलान्तसंसरणरत्नभुवम् ॥ ६७ ॥
अगृहीतकालनियमां कुसुमैः सलिलै: सदोढकमलप्रणयाम् ।
विभत्रैः समन्तसुलभातिभरैरनपेक्षिताश्रयविशेषगुणाम् ॥ ६८ ॥
अधितोयराशि गिरिशङ्गन्तटे घटितां महेन्द्रपुरबर्धकिना ।
भवमध्यभाजि गुणजालमयीं धियमात्मनीर्थं विभुनाऽहमिति ॥ ६९ ॥
प्रतिवारि जातकनकाम्बुरुहां प्रतिशाखि मारकतमूलदलाम् ।
प्रतियातुधानभवनन्तलसत्परिमाणं शून्यपरिवारैचयाम् ॥ ७० ॥
निजकान्तिमग्नसकलप्रचयामवधानलक्षितललामचैयाम् ।
असकृत्कराग्रपरिमृष्टदृशो ददृशुर्दशाननपुरीं हरयः ॥ ७१ ॥ कुलकम् ॥
2 १. A निशात । B तिशीत शुक्र २. BCD वसां ३. A मन ४. BC हि । ५. Aधु । ६. B ने
७. BCD ताहसति । ८. D विभवान्त । ९. BCD णाम । १० A प ११. BCD लवा ।