This page has not been fully proofread.

२३०
 
समुद्रलङ्घनो नाम
 
ईति वादिनः प्रमदकण्टकिता: परितः परिच्छदविशेषभृतः ।
उपसेदुरीशमिव तं निकषातनयं तदैकमतयः कपयः ॥ ४८ ॥
 
प्रणयप्रवृत्तसकलात्मकथाः कथयांबभूवुरतिगूढमपि ।
अथ ते समानकरणीयरसाः सहसाऽब्धिपारमधितत्वरि ॥ ४९ ॥
 
समकालमेव जलराशिममुं मम सैन्यमेतदभियाति यथा ।
नल शिल्पवानसि कुरुष्व तथेत्यवदद्विधानतरलोऽधिपैतिः ॥ ५० ॥
 
घटयामि सेतुमहमत्र नगैः प्लवगेश विश्वसिहि यातु निशा ।
प्रहिणु क्षितीघ्रहरणाय हरीन् महरान्तरे तरसि राशिमपाम् ॥ ५१ ॥
इति विश्वकर्मसुतसंश्रवणात् प्रमुद: प्लवङ्गमपतेरपतत् ।
स्वबलेषु दृष्टिर तिहृष्टिकरी कमलेषु दीप्तिरिव चण्डरुचः ॥ ५२ ॥
 
अवदच्च तानुषसि यूथपतीन् बजताहरध्वमविलम्वमिति ।
गुरुदुष्कराद्भुतविधिप्रवणा लवणाब्धिवन्धनसहानचलान् ॥ ५३ ॥
जगृहुस्तदोमिति चमूपतयश्चतुराः शिरोभिरधिपस्य वचः ।
मुमुचुर्मुखैश्च ककुभः सपदि क्षणदानुरागमरुणच्छुरिताः ॥ ५४ ॥
अयमात्रयोर्दहनबाणहतः सहसैव शोषमुदधिर्ब्रजतु ।
रचयाव संक्रममिपुप्रकरैरथवेह यान्ति किममी कपयः ॥ ५५ ॥
 
इति रामलक्ष्मणवचस्यवदत् कपिराट् किमद्भुतमिदं युवयोः ।
स्वयमेव सत्स्वभिसरेषु नतु प्रथमं परिश्रमजुषः प्रभवः ॥ ५६ ॥
अथ चेलुरुञ्चलितवालधयः कपयो नभस्यपसरत्तमसि ।
प्रमुखेऽह्नि संनिहितवन्धभयादिव सिन्धुराण्णिभृतभावमगात् ॥ ५७ ॥
 
प्रशशंस दाशरथिरुन्महसः सह लक्ष्मणेन कपियोधगणान् ।
प्लवगेश्वरस्य सुहृदर्थरसः स विभीषणस्य विततान मुदम् ॥ ५८ ॥
 
चरमं ययुः प्रणयिनः कमलान्यभिहृत्य रामचरणाब्जतलम् ।
 
प्रथमं समुद्धृतमही कुलाः स्थपतिं प्लवङ्गपृतनापतयः ॥ ५९ ॥
 
१, BCD omit this stanza. २. B धिभूय CD भिभूपमिति । ३. C र्कसुतः D क्रमतः । ४. A तः।