रामचरितम् /261
This page has not been fully proofread.
षड्विंशः सर्गः ।
कपयस्तदोमिति गिरः सकलाः परिगृह्य राघवसमीपमगुः ।
विदधुर्विभीषणसमागमनप्रचयं च तं सुवचसो विदितम् ॥ ३६ ॥
अवलोक्य सादरमथार्कसुतं स पुमानुवाच हनुमान् क्व सखे ।.
अयमस्मि दास इति सोऽभ्यवदद्विदितक्षपाचरकुलप्रचयः ॥ ३७ ॥
नियमात्प्रभोः स रभसोपगतः पुरदाहपर्वणि सुदृष्टचरम् ।
मुमुदे सगन्धमिव गन्धवहप्रभवो विभीषणमुदीक्ष्य चिरम् ॥ ३८ ॥
तमुपानिनाय जनकेन्द्र सुतावचनात् प्रतीतचरितं प्रभवे ।
कथितोपसर्पणनिमित्तमथ प्रथमानभक्तिरसमास्यरुचा ॥ ३९ ॥
प्रणनाम रामचरणौ हनुमद्विनिवेदितोपनतिहेतुरसौ ।
रजनीचरः सुचिरमादरवानधिपृष्ठमेनममृशद्भगवान् ॥ ४०
अवदाद्विहस्य च वयस्यमसौ भवतः श्रमदैवकरे विधुँते ।
कुलमुज्ज्वलत्वममुनाऽस्रभुजामुपयास्यति प्रकटसारतया ॥ ४१ ॥
लवणोदधेरिव सुधाकिरणं कनकारविन्दमिव पन्तलात् ।
अवदातशीलमवगच्छ सखे पिशितात्कुलादुदितमार्यमिमम् ॥ ४२ ॥
इयमंशुमालिसुत रत्नवती जगती न कुत्र सुकृती यदयम् ।
अजनिष्ट विष्टपबुधोऽस्रभुजामपि घोरकल्मषनिधौ भवने ॥ ४३ ॥
बत वत्सलक्ष्मण इवोपनते सुहृदि त्वयीव सुबहुप्रणये ।
सहसैव विश्वसिति शत्रुकुलादपि मे समागतवतीह मनः ॥ ४४ ॥
अभिषिच्यतामुचित एष पदे पयसा मुदा जलनिधेरधुनाँ ।
चिरमाविरस्तु कपिचक्र पुरस्कृतिधौतरावणनिकारमलः ॥ ४५ ॥
श्रुतमृक्षराट्प्रभृतयः सचिवाः स्वमुदीर्यतां हरिभटाः स्फुरितम् ।
परवानतीव जन एष भवत्स्ववधार्य शिष्ट सुविचिन्त्य मिथः । ४६ ॥
भगवन् प्रमाणमिह वायुसुतो विचिकित्स्यते किमित्र तूर्णमयम् ।
उपगृह्यतामुपरतः स रिपुर्निभृतानि सूचयति मर्मविदि ॥ ४७ ॥
२१९
१. BCD वहनप्रभवः पुरतो २. A वयसः । ३. BC दि । ४. C वृ । BD धृ । ५. A प्रविबुधा ।
६. A जन ५, BC D धुनैवजलधेरमुना LBCD omit this stanza.