This page has not been fully proofread.

२२८
 
समुद्रलङ्घनो नाम
 
परिमण्डलारुणविशालदृशो दशनच्छदाभ्यधिकतीक्ष्णैरदान ।
जलभिन्नसेतुविषमोच्चनसानसमञ्जसाकृतिविशेषभृतः ॥ २४ ॥
क्रमनिर्यदूर्ध्वविरलर्क्षचयाँन् सिचयान्तचञ्चदनुवातघनान् ।
प्रतिपन्न भूमिगमनान् गगनाद्वनगोचरा ददृशुरस्रभुजः ॥ २५ ॥ कुलकम् ॥
 
उदगुस्तदाऽत्रभुज इत्युदितप्रतिघाः प्लवङ्गपतयः प्रति तान् ।
अनुगा हरेरिति कृताञ्जलयो रजनीचराः कपिगणानवदन् ॥ २६ ॥
 
त्यजताहवग्रहमुदग्रभुजाः सुहृदो वयं न भवतामरयः ।
अवध भवाम शृणुत प्रचयं विनिवार्यतामयमनीकरवः ॥ २७ ॥
रजनीचरेष्वनघ एष न किं विदितो विभीषण इति प्लवगाः ।
प्रततं पतद्दशशिरश्चरितैर्घृतमस्त्यनेन हि पुलस्त्यकुलम् ॥ २८ ॥
उचितानुबन्धसरुषाऽग्रभुवा बहु विमकृत्य विधुतः स्वपुरात् ।
परिचिन्त्य भूरि परिपृच्छ्यं गुरूनयमेति रामचरणौ शरणम् ॥ २९ ॥
परिबोधनाभिरयमर्थपतेश्च्युतसोदरत्वमललेपलवः ।
त्वरतेऽतिशय्य भवतोऽप्यधुना निधनाय तस्य जगदेकरिपोः ॥ ३० ॥
 
परमास्त्रवेदविदयं विजयी विविधाजिरङ्ग रचनाकुशलः ।
कुरुतां कुतूहलमरिष्वनघो रघुनायकस्य पुरतः प्रहरन् ॥ ३१ ॥
 
इदमस्त्रमुद्यतमरातिषु वः त्यजत भ्रमं वदत किं कुरुताम् ।
प्रहरत्स्वपि प्लवगयोधगणा न भवत्सु गच्छति विकारमयम् ॥ ३२ ॥
 
अयमुज्झति स्वमपि दोषवशं गुणगौरवात्परमपि श्रयति ।
बत विस्रमप्यनुसरत्यसृजः पशुरेव गन्धमभितो न बुधः ॥ ३३ ॥
 
अनवेतैकारणतया कपयः प्रथमं प्रपन्नमनुरूपमिदम् ।
 
अधुना तु वत्सलतयाऽनलसाः प्रभुमाशु नः कथयत प्रभवे ॥ ३४ ॥
 
विवृणोतु रावणरहस्यशतान्ययमादधातु विजयं भवताम् ।
 
विजिगीषुमर्यंतपसं भजते न सपत्नकुल्यपरमाणुरपि ॥ ३५ ॥
 
. १. A धिकसिताप्र २. BC लोर्ध्वकचा । ३. C दयितेवपञ्चतघनाविव तान् । A नौ । ५. BD नुपेत ।
 
६. Aप ।