This page has not been fully proofread.

षड्विंशः सर्गः ।
 
तुहिनांशुतत्प्रतिशरीरभृतोर्विततोडुफेनलवयाः परितः ।
न तदा रघूहसमाजबुधैर्बुबुधेऽन्तरं गगनसागरयोः ॥ १२ ॥
रविनन्दन स्थगय चन्द्रमसं मम पश्य संप्रति सुधेति सखे ।
अयमन्तरूढकलुषः क्षिपति स्मरवाणवर्त्मसु विषं विषमंम् ॥ १३ ॥
किममीभिरम्बुजदलव्यजनैः किममीभिराईकुसुमप्रकरैः ।
मम तापहेतुममुमेव विधुं तुद वालिपुत्र बलवानसि चेत् ॥ १४ ॥
इयमृक्षराज रजनी न भवत्यहरेव रौद्रमिदमुत्तपति ।
 
बतं कौमुदीति मृगतोयमिमास्तरलीकरोति जलराशितटीः ॥ १५ ॥
नल किं मृणालशकलाभरणैर्मणिभिः फलं किमपि नील न मे ।
कुमुद प्रयच्छ हृदि पाणितलं विरहानलः शतबले बलवान् ॥ १६ ॥
मनसः सुषेण विषमो दवथुर्वितथा वपुष्युदकयुक्तिरियम् ।
अयमुन्मिषत्कुमुदगन्धकटुः पवनः प्रवाति कथमुच्छ्रसिमि ॥ १७ ॥
कियती निशाँ निषध यामती किमितीन्दुरद्य न जगत्यजति ।
त्वरयार्य तार सवितारमितश्च्युतचन्द्रिकातपमसौ तपतु ॥ १८ ॥
पुलिनं विनाकृतमिदं प्रियया मम साईवालुकमपि ज्वलति ।
पवमानपुत्र किमवन्ति न मामपि सिन्धुपारलहरीमरुतः ॥ १९ ॥
इति यामिनीशमहिकोरृतिभिर्धगिति प्रदीप्तविरहज्वलनः ।
वदमान एव स मिमील पुमान् प्रतिपन्नतन्त्र इव चन्द्रमुखः ॥ २० ॥
 
निकटं निशाचरपुरं हरयः प्रभुरेष निस्सह इव स्वपिति ।
अवधाय जागृत निशीथवतीमिति यामिकानरुण सुनुरँशात् ॥ २१ ॥
अथ कुण्डलाङ्गदकिरीटमणितिजालजर्जरितनीलरुचः ।
निजवर्ष्मरुद्धपवमानपथानुपतोयदानिव तटिर्न्निचितान् ॥ २२ ॥
धृतदीप्तशक्तिमुसलासिगदापरिघाङ्कुशस्वधितिशूलशिलान् ।
विकरालवक्रनखरप्रकराननरालदीर्घघकूकचन ॥ २३ ॥
 
२२७
 
१. BCD प्रसवेषु मार्गणपथेषु विषम् : २. D नव ३. BCD वसा ४. A माघवती ५, A गजनत्य ।
 
६, BO मिहिकायु । ७. BCD भास्करिः लत्रगचक्रम । ८. त्ख । ९ BCD हरि ।