This page has not been fully proofread.

૨૦
 
समुद्रसन्दर्शनो नाम
 
उद्वेल्लदुंग्रभुजगाङ्गन्दवीचिबाहुः वेलोच्चलत्तुमुलतोयरवाट्टहासः ।
चन्द्रान्तलग्नपृथुफेनकपालमालो लीलामयं हसति पर्वसु भैरवस्य ॥ ५९ ॥
 
रोधस्यजत्रमयमोघरवो नदीनां मेघारवोऽयमुपरि प्रणयप्रगल्भः ।
वीचीरवस्तुमुल एष तथापि तृष्णीमास्तीर्य सर्वककुभः स्वपितीव सिन्धुः ॥ ६० ॥
 
पश्य प्रसीद विषमोल्लसदकुरालिरोचिष्णुविद्रुमकदम्बकमम्बुराशौ
 

मधोरिवासृकूँ ॥ ६१ ॥
 
मीनौघपद्धतिविशेषलसत्कठोरसंस्थानभेदशतशालि
 
आमृष्टशङ्करविकर्तनवज्रपाणिब्रह्मादिकत्रिदिवसद्मपरम्परस्य ।
निष्कम्पनिर्मलपयःपटलस्तवायं निद्रालयः प्रलयकालनिराकुलस्य ॥ ६२ ॥
 
गव्यूतयोऽस्य कतिचिन्नयनांशुगम्याः श्राम्यत्यमुष्य कलयद्विभुतां मनोऽपि ।
अस्योदितानि पुनरागमसंहिताभिर्द्वीपान्तराणि मम गोचरतां गतानि ॥ ६३ ॥
अत्र त्रयीमनुससार पुराणमीन: कूर्मो महीमिह निविष्टतनुर्बिभर्ति ।
अस्मिन्नसावसुरभारभरान्निमग्नां गामुज्जहार परिगृह्य महावराहः ॥ ६४ ॥
शून्यासु दिक्षु विपुले तमसि स्वयभूः विश्वं सिसृक्षुरिममेव ससर्ज पूर्वम् ।
तस्याथ बीजपरिषेकनिदानमन्तर्निर्वर्ण्यते स्म जगदण्डमिहैव हैमम् ॥ ६५ ॥
अत्रोदयास्तमयभाजनमंशुमाली सोमोऽस्य वल्लभ इतीव शिवस्य मूर्ध्नि ।
अस्यान्तमेकमधिगम्य कमप्यगम्यं मीलत्यचिन्त्यमहिमा भगवाननन्तः ॥ ६६ ॥
मेघाः किरन्ति जलमस्य भुवि स्वनन्तः सोऽस्तीह मूलमणिरत्नधरास्वनन्तः ।
अस्मिन् पतन्ति पयसामविराममोघाः श्लाघागिरोऽत्र विदुषां सुतराममोघाः ॥६७॥
शश्वद्दिगम्बरपरिग्रहभीमवर्ष्मा वल्गत्ययं विशदशीकरमुक्तरङ्गः ।
विस्रंसिभस्मकणकर्बुरलोलपाणिः कल्पान्तकाल इव शम्भुरमुक्तरङ्गः ॥ ६८ ॥
उग्रन्त्यमी निकट एव महातरङ्गनश्चित्राश्च सत्त्वगतयः स्फुटमुद्भवन्ति ।
दूरादिह क्रमजिताखिलभूमिदोषे निष्कम्पमेकममृतं परमाविरस्ति ॥ ६९ ॥
आयस्तनीलमणिकुट्टिमकोमलानि केचिद्दिर्शन्ति हृदि में भगवन्नमूनि ।
बारीणि विद्रुमरुचिच्छुरितानि सिन्धोः सन्ध्या भिन्नशरदम्बरविभ्रर्माणि ॥ ७० ॥
 
१. BD मु । २. CE मीनोऽथ । ३. B भ्रम् D स्रम् । ४. D पृष्टगन्ध C शङ्कसत्वर A सत्वर ।
 
५. CA कश्चिद्वि ६. BCD दये । ७. A न्ध्यांशु । ८. D डम्बरा ।