रामचरितम् /255
This page has not been fully proofread.
पञ्चविंशः सर्गः ।
कर्तुं प्रियं रघुपतेः स तदाऽध्युवास वेलातटं निकैटदेहभरो हरीशः ।
मैनाकमम्बुनिधिमग्नमिवानुसतु मेरुर्महीधरसहस्रपरीतमूलः ॥ ४७ ॥
अन्तः सदर्पविकसत्कुमुदैस्तदानीमुत्केसरैः परिवृतं हरिवीरपद्यैः ।
पारोन्मुखोत्सुकरधूद्वहैराजहंसमुद्गीवलक्ष्मणमशोभत सिन्धुकूलम् ॥ ४८ ॥
*
मीलन्निवास शिशुकाकृतिराञ्जनेयः स्वां जाम्बवान् परिणतिश्लथतां निनिन्द ।
नीलाङ्गदद्विविदमैन्दमुखा ववल्गु: वीक्ष्याग्रतोऽम्बुनिधिमुग्रजवा युवानः ॥ ४९ ॥
रामोऽस्मरन्नपि चिरन्तनचेष्टितानि पर्युत्सुकत्वमभजज्जलाधं विलोक्य ।
न व्येति पूर्वजननानुभवधिवासश्चेतस्यपूर्वविधिभारनिरन्तरेऽपि ॥ ५० ॥
शेषस्तथैव स तवास्ति तथैव लक्ष्मीः प्रहस्तथाऽहमपि संप्रति को नियोगः ।
कल्लोलराजिभिरितीव तरङ्गमाली रिङ्गन्नभाषत रघूद्वहपादमूले ॥ ५१ ॥
श्रोतव्यचाटुरसकोमलमञ्जुनादं पादाब्जयोरुपहितोचिंतवीचिहस्तम् ।
विस्तीर्णरत्नविसरोपदमम्बुराशिमुन्मील्य दासमिव दाशरथिदर्श ॥ ५२ ॥
तस्मै तदाऽभिमुखनिर्मलवीचिवीथीविश्रान्तसालसदृशे पुरुषोत्तमाय ।
आचष्ट चाटुकुशलः स्वयमेव सिन्धोः सारं समस्तमिति वानरचक्रवर्ती ॥ ५३ ॥
पूर्वैरियानयमखानि तुरइँहेतोः पातालमूलमवलोकितुमुद्यतैस्तैः ।
तत्कारणं सुरसरित्पयसामपूरि तप्त्वाँऽपरेण भवतोऽयमगस्त्यपीतः ॥ ५४ ॥
लक्ष्म्याः पितैष तव पूर्वभवप्रियायाः प्रीतो हरः स भगवानिह रेखयेन्दोः ।
इन्द्राय साश्वमिभरत्नमसावत स्वर्गस्य भूषणमितोऽजान पारिजातः ॥ ५५ ॥
पुष्णाति शत्रुमपि दीप्तमुदारभावादेष श्रितं शिखिनमद्भिरजातबाधः ।
अप्राप्तपक्षविपदां कुपितादपीन्द्रादत्रासते शिखरिणामभयं कुलानि ॥ ५६ ॥
अन्तर्भवन्ति पयसां पृषतेषु मेघाः पूष्णस्स्खलन्ति माणरश्मिशिखासु भासः ।
भङ्गोदरेषु विहरन्ति महाभुजङ्गाः शैलास्तिमिङ्गिन्लतलेषु ललन्त्यमुष्मिन् ॥५७॥
अस्याधिगच्छति न कोऽपि तलं जलानामस्यान्तरीपमवनिः परितोऽयमेव ।
एष स्ववैभवमदोत्कलिकाविलोलः प्रेङ्खत्यजस्रमधिरोदुमिवोपरि द्याम् ॥ ५८ ॥
१. Aवि । २. BDक । ३. D हरीश्वर । ४. BD गता । ५. A मन्द । ६. A च्छ्रि । ७. AC
हृयस्य । ८. C ल्लो । ९. A स्पृष्टः । B पूष्णस्तुलन्ति । D पूर्णांस्तुलन्ति ।