रामचरितम् /252
This page has not been fully proofread.
११०
समुद्रसन्दर्शनो नाम
प्रापत्पुरः कनकभक्तिलसत्किरीट : काष्ठामुखानि मुखकालिकया विलिम्पन् ।
नीलो दवाग्निरिव विन्ध्यवनाहितांर्चिःसंभिन्नधूमवलयो मलयोपकण्ठम् ॥ ११ ॥
दूरप्रकाशदशनालिबलाकिनीभिराकेकरेक्षणमरीचिसटौतटिद्भिः ।
आतस्तिरेऽद्रिवनमार्गतलाधिकाभिः खं कालिकाभिरिव जाम्बवतश्चमूभिः ॥ १२ ॥
ऋक्षैः कचार्धनिचितारुणभीषणाक्षैरन्वीयिरे हरिभटाः स्फुटकेसरास्ते ।
भस्मोत्करैरिव विलम्बितविस्फुलिङ्गैः कक्षाग्नयः प्रसृतलोलशिखाकलापाः ॥ १३॥
एके विनिद्रकनकाम्बुजगर्भगौरैरन्ये नवोदितविरोचनबिम्बताम्रैः ।
केऽपि प्रवालपटलीपरभागचौरैः केचिच्च भिन्नकुरुविन्दशिलाभिरामैः ॥ १४ ॥
केचिद्गजाह्रैकुसुमोत्करतुल्यवर्णैः केचित्प्रकामविलसद्गिरिकर्णिकाभैः ।
केचिच्च केतकशिखाशुचिरमिजालैः केचिच्च रूढशरकाण्डविपाण्डुगण्डैः ॥ १५ ॥
एकेऽश्मँगर्भहरितैरपरेऽञ्जनभैरन्ये निरभ्रगगनोदरसंनिकाशैः ।
केचिद्विचेलुरलिकोकिलकान्तिनीलैर्वक्तैः प्लवङ्गपतयँः पतगेन्द्रवेगाः ॥ १६ ॥
केचिद्ययुर्विपुलबर्हिकलापक्लृप्तच्छत्रावलीह सितसान्द्रतमालखण्डाः ।
केचिच्च धौतविरजोंऽशुकवैजयन्तीसन्तान संहितशरद्धनराजिरन्ध्राः ॥ १७ ॥
जग्मुः स्थलीभिरुपशैलमनोकहाली: कापेयखेलमपरे परिलोलवन्तः ।
साधारणाध्वसुलभोपगमाभिरीयुरद्भिः करामलकनुल्यताभिरन्ये ॥ १८ ॥
जाताः स्थलानि सरितः सरितो मरूणिं रोधांसि रुद्रवने॑वेणिरयाणि पेतुः ।
आसन् कियन्त्यपि रजांसि च मार्गशैला: सेहे भरः स धरया न हरीश्वराणाम् ॥१९॥
अन्योन्यसंघटनखेलविलासपत्राः पुत्राख्ययाँऽऽत्मसु महीतलगोचरेषु ।
ब्रह्मादयः परमदेवगणास्तदानीं तेरुस्त्रिविष्टपरुहां प्रसवं तरूणाम् ॥ २० ॥
आघ्रातवज्रधरैवीर्यविशेषगन्धैरुत्कन्धराय चलते महता बलेन ।
तेने मिथः प्रमदमूर्छितगीतवाद्यैर्विद्याधरैर्वियति मङ्गलमङ्गदाय ॥ २१ ॥
रामश्चचाल मसृणं सह लक्ष्मणेन दूरीचकार ककुदानि वलीमुखेन्द्रः ।
साधारणश्रमजुषामुपकण्ठमीयुस्तेषामुपान्तनलिनीसुहृदः समीराः ॥ २२ ॥
१. A द्वना । २ Dरा ३. A खा ४. Aहि. ५. CD स्म ६. BC-पिरेणु । ७. D पतङ्गगतयः ।
८. CD रा । ९. BCP तामुरस्सु १०. A तल ११. AB विशालयन्त्रः पुनाख्यया CD विलासपत्रः ।
१२. D मद ।