This page has not been fully proofread.

पञ्चविंशः सर्गः ।
 
पञ्चविंशः सर्गः ॥
 
कालेन तेन हनुमत्कथितप्रवृत्तिः सौमित्रिणा सह पुरस्सरवानरेन्द्रः ।
यात्रां प्रसन्नकरणोऽनुगुणग्रहेऽह्नि जग्राह रावणसमाप्तिरणाय रामः ॥ १ ॥
प्रास्थानिकः कपिपतेर्मणिडिण्डिमानामाडम्बर: सडमरोऽम्बरमाततान ।
सर्वाद्रिकन्दरपरिग्रहमेदुरोर्मिर्घर्मान्तसंभव इवाम्बुमुचां निनादः ॥ २ ॥
तस्याथ राघवसरोरुहसौहृदेन पुत्रच्छलादिव रवेर्भुवमागतस्य ।
 
छेत्तुं तमो दशसु दिक्षु दशाननाख्यं चेलुः करा इव कडाररुचः कपीन्द्राः ॥ ३ ॥
 
शङ्खस्वनानुपदमुज्झितसर्वकार्यैर्निर्यद्भिरग्रसरयूथपयूथपेन्द्रैः ।
पूर्वाधिवासगिरिकन्दरसंस्थ एव तारस्ततारै तटकाननमम्बुराशेः ॥ ४ ॥
मैन्दो महेन्द्र इव सावरजचचाल लीलाधृतद्विविदपाणितलस्तदानीम् ।
आसीदथाम्बुनिर्धिमार्गधरातिरिक्तं नासीरसन्ततिनिरन्तरमन्तरिक्षम् ॥ ५ ॥
निश्चक्रमुर्निकटसंख्यरसादसंख्यास्सेनास्तयोरवनिमेव निमज्जयन्त्यः ।
भिद्योद्धयँयोर्नवधनागमपूरवेर्गादुद्दामडम्बरतरङ्गरवा इवापः ॥ ६ ॥
 
संघट्टपष्टतटतालतमालखण्ड: तेने बलैः शतबले : सकलो महेन्द्रः ।
आमूलकम्पशिथिलाश्म निवेशबन्धो" विन्ध्यः पृथुं भैरैमसोढ न वाहिनीनाम् ॥ ७॥
 
प्रष्ठप्रधानकपिसंहतिसङ्कन्टायां तस्यां ममुः ककुभि केसरिणो न सेनाः ।
सौजन्यशीतलमुखोऽपि सुतोऽञ्जनायाः प्रोत्सारणां गुणगणैरकरोत् प्रदीप्तेः ॥ ८ ॥
 
मध्येवरप्लवगनागचमूसहस्रं सत्रे सहस्रकरभासुरवक्त्रभासा ।
तत्पूर्वसंभ्रमपरिग्रहमुक्तमार्गान् मार्गाद्रिसानुषु हरीन् हर्सेता गजेन ॥ ९ ॥
 
तुल्यं गवः प्रसरति स्म जलस्थलाभ्यां वल्गन्महीगगनयोर्गवयो जगाम ।
पृथ्वीभृतामचलदुन्नमितात्मशृङ्गः शृङ्गाणि भूमिसमतां गमयन् गवाक्षः ॥ १० ॥
 
१. CD णा । २. A स्तुमुलनिर्झर । ३. BD न । ४. B घर ५. AC क्त । ६. A. स्ते । ७. A
८. AC भेदा ९. BCD वनसदाम् । १०. A द्धो । ११. AB न्ध्यंपृथोर्भ । १२० A सिंहाः । १३. B भुक्त
CD युक्त १४. BCD सह ।