This page has not been fully proofread.

२१८
 
समुद्रसन्दर्शनो नाम
 
व्रज रामं महात्मानं त्यज दस्युं दशाननम् ।
वेलासख्य इतीवोच्चैस्तमूचुर्वीचयोऽम्बुधेः ॥ १४३ ॥
 
तिष्ठ तिष्ठ दशकण्ठ हन्त्ययं त्वां निकारनिघृणो विभीषणः ।
इत्युदीर्य पुरमैकपैङ्गलीं गन्तुमम्बरतलेन तत्वरे ॥ १४४ ॥
 
अभजत्ततो बुधमैनोहृदयेन प्रणमन् पुराणपुरुषं हृदयेन ।
गगनाध्वपृष्ठमलैमृज्ज्वलकाया: खचरीरलोकत महोज्ज्वलकायाः ॥ १४५ ॥
इत्यभिनन्दकृतौ रामचरिते महाकाव्ये मन्दोदरीसमुपदशो नाम चतुर्विंशः सर्गः ॥
 
कैवीन्द्रैरुद्भूतं जितमनघशीलैः सुकृतिभिः कलावद्भिर्लब्धं फलमविकलं स्वाभिलषितम् ।
कृतेन प्रध्वस्तं कलियुगमकाण्डे बलवता कुलेन्दौ पालानामवति युवराजे वसुमतीम् ॥
 
किं शीधुभिर्भवतु फाणितशर्कराद्यैः किं वा सितासहचरैः कथितैश्च दुग्धैः ।
दुग्धाब्धिलब्धसुधयापि न किञ्चिदेव यत्राभिनन्दसुकवेः प्रसरन्ति वाचः ॥
"ते मेघमुक्तमपि न स्तुवते हिमांशुं तेषां मनो न रमते मकरध्वजेऽपि ।
सर्वारिवीरविजयप्रसृतप्रशस्तिः श्रीहारवर्षजगतीपतिरीक्षितो यैः ॥
 
१ CDE नुजद्युतोवधि । २. BCDE परनाथपृष्ठतलनु । ३. CD सनो। ४. A omits this
 
sloka! ५, C only reads this sloka. ६. A only reads this sloka,