रामचरितम् /248
This page has not been fully proofread.
२१६
मन्दोदरीसमुपदेशो नामं
।
इति मन्दोदरीवाक्यैर्निष्पन्दोऽभूद्दशाननः
चिरस्यै तामुवाचेदं मुखैर्मुकुलितेक्षणैः ॥ ११९ ॥
तमोऽस्तं दर्शितः पन्थाः सन्तापः क्षपितो हृदि ।
त्वया नश्चन्द्रिकाभाभिराभिः सुदति सूक्तिभिः ॥ १२० ॥
प्रत्यर्पयामि वैदेहीं मानयामि विभीषणम् ।
रामे वैरं विमुञ्चामि प्रमाणं तव शासनम् ॥ १२१ ॥
द्विजेभ्यो दत्तमभयं देवेभ्यश्च कृतं नमः ।
अद्याकृष्टं परस्त्रीभ्यस्तवादेशान्मया मनः ॥ १२२ ॥
उशन्ति गृहिणीमधं मनुष्याणां मनीषिणः ।
मन्दोदरि दशग्रीवः समग्रो भवतीमयः ॥ १२३ ॥
त्वमङ्गानि त्वमस वस्त्वमात्मा च मनश्च मे ।
त्वमन्तश्च बहिश्च त्वं त्वन्मयोऽयं दशाननः १२४ ॥
त्वत्प्रसादे ममोल्लांसस्त्वत्कोपेऽपि कुतूहलम् ।
त्वत्प्रागल्भ्ये रतिः कापि त्वन्मौग्ध्येऽपि घना मुदः ॥ १२५ ॥
त्रिजगद्विजयक्लेशं बाहवो विस्मरन्ति मे ।
निमज्ज्यामृतशीतेषु त्वदङ्गेषु वरानने ॥ १२६ ॥
इत्यादिकं स कामार्तः सत्यानृतमुवाच ताम् ।
वञ्चयन्ति विदग्धा हि येन तेनापि योषितः ॥ १२७ ॥
ततः स निष्क्रम्य बैली बलं ज्ञातुं वनौकसाम् ।
रहास प्रहिणोति स्म मन्त्रिणौ शुकसारणौ ॥ १२८ ॥
अन्तं ययौ न योधानां नायुधानां न वर्मणाम् ।
न खरोष्ट्रगजाश्वानां न च सारार्थसंपदाम् ॥ १२९ ॥
हेमाद्रिवलयाकारान् प्राकारान् परितुष्टुवे ।
कृतक्रूरँकवाटायां द्वारि द्वारि दृशं ददौ ॥ १३० ॥
१. CD विरम्य । २. A माश्वा । ३. Aन्तु । ४. Aज्जा । ५. A र्तीः । ६. BC ष्ठरावर्णि ।
७. A सज्ज ।