रामचरितम् /246
This page has not been fully proofread.
मन्दोदरीसमुपदेशो नाम
आर्यपुत्र न ते कार्य तयाऽत्र स्थितया पुनः ।
अनुयास्यति भर्तारं तमेव हतमेप्यसौ ॥ ९५ ॥
ईर्ष्यामलः कोऽपि न मे सपत्न्यः सात्मतां गताः ।
न च ते माय हीयेत गौरवं पितृकारितम् ॥ ९६ ॥
देवदानवगन्धर्वमनुष्योरंगरक्षसाम् ।
वरस्त्रीनिवहस्यास्य कृताऽहमुपरि त्वया ॥ ९७ ॥
ऐश्वर्यमुपभुक्तं ते जगत्त्रयजयार्जितम् ।
दैवं प्रमाणमधुना कुरु नाथ यदिच्छसि ॥ ९८ ॥
त्वदिच्छासिद्धिषु कृतं रहःसाहायकं मया ।
उपहासाः सपत्नीनामभव्यानमुपेक्षिताः ॥ ९९ ॥
प्रसिद्धाऽहं त्वयैवोच्चैर्नाथ न प्रतिकर्मणा ।
यशश्चन्दनविच्छिन्नैस्त्वं च दोर्भिः प्रसाधितः ॥ १०० ॥
एभिरश्मभिरामुक्त: किं मुक्तादिकनामभिः ।
त्वया मुक्तमकस्माच्चेत् कुलस्याभरणं यशः ॥ १०१ ॥
त्यागः शौर्य तपः शक्तिः सत्यं धर्मो दमः शमः ।
शीलं शौचमिति प्रोक्ताः यशसो दश योनयः ॥ १०२ ॥
धर्मादिपञ्चकद्वेषः किं यशोदयितस्य ते ।
तदुपार्जनसामर्थ्यविरहस्तु कुतस्त्वाये ॥ १०३ ॥
त्वयि सर्वगुणोत्कर्षविश्रामजनितं यशः ।
दूँष्टुं दोहदिनी देव दयितेयं मयात्मजा ॥ १०४ ॥
विशदीकृतविश्वस्य क्षितिच्छाया विधोरिव ।
निस्सृष्टाँ कालिकाहेतोर्यशसस्तव पार्थिव ॥ १०५ ॥
मन्ये हसति काकुत्स्थदत्तघोराधिमद्य माम् ।
अवहेलितपौलस्त्यवीर्यसंपद्भ्यां शची ॥ १०६ ॥
१. BD मवस्थि C. स्थितिमत्य । २. BC पिशाच ३. BD देव ४ Dस्स. ५. BC पतिरस्मा ।
६. B द्वे. । ७. A. विसृष्ट। ८. Aव । ९. A भयजीर्णज्वरा ।