This page has not been fully proofread.

२१२
 
मन्दोदरीसमुपदेशो नाम
 
इत्युन्मत्त इवात्यन्तमन्तः संचिन्तयन्नसौ ।
विवेश मदनावेशमन्दो मन्दोदरीगृहम् ॥ ७१ ॥
तं प्रतीयेष महिषी संभ्रमेण महीयसा ।
कोऽपि देवः कुलस्त्रीणां पतिरेव पतन्नपि ॥ ७२ ॥
अवस्थाकथितोद्वेगां सुभगा॑ां तां दशाननः ।
पप्रच्छाङ्कमुपानीय मन्देमङ्गानि संस्पृशन् ॥ ७३ ॥
देवि दूँनासि किमिति त्रिलोकी तव पादयोः ।
अयमादरदत्ताङ्कः किङ्करस्त्रिजगज्जयी ॥ ७४ ॥
भद्रं तवेन्द्रजिन्मातर्मत्प्रिये मयनन्दिनि ।
वीरत्रयोज्ज्वलायास्ते किमद्य मलिनं मुखम् ॥ ७५ ॥
 
स्मितकान्तिच्छटातिथ्यं किमुच्छिन्नं कपोलयोः ।
बिम्बाधरे च किमयं रागस्ते स्तोकधूसरः ॥ ७६ ।
 
नामुक्ताः किमलङ्काराः प्रत्युप्तविकटोपलाः ।
ह्यस्तनान्येव तन्वङ्गि मङ्गलाभरणानि ते ॥ ७७ ॥
दुनोति व्युषितो वेषस्तवायं लोचनानि मे ।
क्व सैरन्ध्यः कृतं ताभिरहमेव प्रसाधकः ॥ ७८ ॥
 
आपाणिग्रहणादेवि दासस्ते दशकन्धरः ।
अयं लाक्षारसेनाद्य पादौ पल्लवयिष्यति ॥ ७९ ॥
 
इति पादतलप्राप्तप्रस्विन्नकरपल्लवम् ।
रुरोध त्रपमाणेव रावणं रमणी निजा ॥ ८० ॥
 
अनुबध्नन्तमाश्लेषैः सविश्लेषा शनैरैसौ ।
 
तमूचे केलितरलं विषादतरला गिरः ॥ ८१ ॥
 
कारमात्मनः ।
 
देशकालोचितं देव दर्शयाकारम
अस्मिन्महत्यभिसरे नैं विराजत्ययं क्रमः ॥ ८२ ॥
 
१, BC सय २. BC दी । ३. ज्ञः । ४. A शोष ५. BD षशतै D षविनै ६, A नवसरे राजन