This page has not been fully proofread.

२०८
 
मन्दोदरीसमुपदेशो नाम
 
रेचयामास निश्वासान्निकुम्भोऽग्निशिखामुचः ।
गाम्भीर्यपिहितारम्भः कुम्भः कुम्भकमाददे ॥ २३ ॥
अतिकायोऽपि चिन्तावान्महाकायमुपाययौ ।
शठः किमपि वक्रस्य कर्णयोरवदच्चिरम् ॥ २४ ॥
विज्ञातवेदनान् ज्ञातीनथ संभृतविक्रियः ।
उवाच रक्षोऽधिपतिः क्षणमाश्वासयन्निव ॥ २५ ॥
 
किम्भो विषादलुलितप्रसादवदनेन्दवः ।
विभीषणकणः कोऽसौ सति रावणरोहणे ॥ २६ ॥
 
हे बान्धवाः प्रमोदध्वमुद्धृतः कुलकण्टकः ।
मुदः स्थाने शुचमिमां न जाने भवतामपि ॥ २७ ॥
 
अद्य नन्दत निर्विघ्नमद्य गायत नृत्यत ।
गतोऽसावुत्सवद्वेषी दशास्यनयनामयः ॥ २८ ॥
अस्माभिरिव किं तेन तपस्तप्तं शतं समाः ।
उत्कृत्योत्कृत्य मूर्धान: सुहुता वा हुताशने ॥ २९ ॥
आत्तं सर्वस्वमसक्रुद्वित्तेशस्य बलेन वा ।
आबलीयसमारम्भं जम्भारिर्लम्भितोऽथवा ॥ ३० ॥
 
कृतोऽद्रिदुहितुः कम्पः कैलासोद्धरणेन वा ।
अयं वो येन मत्पक्षाः पक्षपातो विभीषणे ॥ ३१ ॥
 
श्रूयतां तद्गतात्मानं त्यजामि सुतमप्यहम् ।
कर्कशक्षुपसंश्लिष्टं निर्मोकमित्र गूढपात् ॥ ३२ ॥
 
नयोपदेशो विदुषां लोकयात्रानुवृत्तिषु ।
जितलोकत्रयाणां तु किं नस्तेन फलं बुधाः ॥ ३३ ॥
 
अतिलोकस्य को दोषः शम्भोर्ब्रह्मशिरश्छिदः ।
किमनश्यत्तनूजायां ब्रह्मणश्च वृषस्यतः ॥ ३४ ॥
 
१. A गामासीत् ।