This page has not been fully proofread.

चतुर्विंशः सर्गः ।
 
ज्वालामुखानां प्रसरादद्य को विचरेद्वहिः ।
शीतांशुवदने तस्मिन् गते गेहेऽपि कः सुखी ॥ ११ ॥
गतः स वर्त्मनो येन तेनैव चलिता वयम् ।
किं नस्तद्विरहाहूतशङ्कन्या लङ्कयाऽधुना ॥ १२ ॥
कच्चिद्वध्य कुपितः कुम्भकर्णस्तमानयेत् ।
 
न तं विवासयेद्भूयस्तद्वात्सल्याद्दशाननः ॥ १३ ॥
कच्चित्तस्य क्षमाहेतोर्भ्रातुः सर्वकनीयसः ।
विंशतिश्रवसं पुत्रं बोधयेद्विश्रवा मुनिः ॥ १४ ॥
 
कच्चित्तं दैत्यहा देवः संभ्रमेण प्रतीच्छति ।
देशैः स्यादेष राजन्वान् सेत्स्यन्त्यस्मन्मनोरथाः ॥ १५ ॥
 
न केवलं सुमनसो मन्युमिश्रमितस्ततः ।
पुरि वीतविचारायामित्यूचुः सूचका अपि ॥ १६ ॥
जग्लौ जगन्मनोज्ञाभिर्विभीषणाहतो क्तिभिः ।
धन्वैघास इवाम्भोदधाराभिर्दशकन्धरः ॥ १७ ॥
 
२०७
 
हा पितृव्य गतोऽसि त्वमनाथा बालिशा वयम् ।
ग्राह्योऽद्य विनयः कस्मादित्याक्रन्द दिवेन्द्रजित् ॥ १८ ॥
प्रहस्तोऽपि मुखे हस्तं निधाय निभृतश्चिरम् ।
चरणाग्रनिविष्टाक्षः प्रतिपेदे दुरासिकाम् ॥ १९ ॥
पिशाचः परमेकस्तं प्रशशंस न संसदि ।
विग्रहप्रतिषेधस्य पश्यन् कारणतां भियः ॥ २० ॥
तं निनिन्द शुकः शत्रुस्तुतिपूर्वोक्तिविस्तरम् ।
सारर्णैस्तुष्टुवे ज्येष्ठनिकारनमिताननम् ॥ २१ ॥
ऋत्र गमिष्यति मर्मज्ञः स्थिरधीः किं करिष्यति ।
इत्यचिन्तयतामन्तर्देवान्तकनरान्तकौ ॥ २२ ॥
 
१. D वार्त्म । २. BCD दश । ३. A गौ । ४. BC नयो । ५. BC यापा । ६. A रावण ।