This page has not been fully proofread.

त्रयोविंशः सर्गः ।
 
हे बन्धुमित्रानुगचाटुकाराः सर्वानयं वक्ति विभीषणो वः ।
किं प्रेक्ष्यते रावण एष मज्जन्नुत्थाप्यतामापदियं गभीरा ॥ ८४ ॥
 
इत्युक्तिनिष्पन्दितटृद्धबृन्दं तं दर्पदोषादहसद्दशास्यः ।
वैलक्ष्यावेच्छायमुवाच पश्चात्तूष्णीमितः सीद वचः श्रुतं ते ॥ ८५ ॥
 
गच्छाथवा रामसमीपमेव किं नस्त्वया तद्व्रतमानसेन ।
तत्रापि न स्थास्यसि युद्धसज्जे हा त्वां पुरस्ताद्भयकान्दिशीकम् ॥ ८६ ॥
 
इत्युक्तकुत्सोऽपि कुलस्य हार्दातं रामपादप्रणतिं ययाचे ।
निर्बन्धजातप्रतिघेन जघ्ने निघ्नः पदा मूर्ध्नि स रावणेन ॥ ८७ ॥
 
कृत्वा विकोशमपि खङ्गमसौ निषिद्धः तत्याज न प्रणतिवादमधोक्षजस्य ।
पश्चात्तमास्यगणगोचरमग्रजस्य योधत्रजः स्ववपुषा तिरयांचकारें ॥ ८८ ॥
राजाज्ञया बाहिरकारि पुरात्तदैव पश्यन् प्रतीपमसकृत्कुलपक्षपातात् ।
वेलातटीपरिसरे परिलम्बमानः स्वैर्युज्यते स्म सचिवैः स चतुर्भिरेव ॥८९॥
 
इत्यभिनन्दकृतौ रामचरिते महाकाव्ये त्रयोविंशतितमः सर्गः ॥
 
येनाराक्षवयस्खलन्मदकलक्वाणोमिंकौतूहलाः १
प्रेक्ष्यन्ते कवयः स्फुटार्थवचसः सन्दर्भशोभारसात् ।
हप्तानां निधनानि यो वितनुते संख्येषु संख्यावतां
निस्संख्यानि धनानि सोऽस्तु सुचिरं श्रीहारवर्षो नृपः ॥
 
१, BCD ज्जोहित्वा । २. BC तरयांबभूव । ३. Conly reads this sloka.