रामचरितम् /235
This page has not been fully proofread.
त्रयोविंशः सर्गः ।
सत्यं मिथः संप्रतिपन्नपक्षाः क्षुद्रः कुलद्रोहरतः सदाऽहम् ।
राजन् क्षमासिन्धुरसि क्षणार्धमप्यक्षतः संसदि ते यदस्मि ॥ ६० ॥
इत्थं गतस्याखिलदोषभाजः स्वाजन्यमात्रादुदितेन किं मे ।
सूक्तैः शिशोरश्रुतपण्डितस्य तुष्य त्वमस्यैव समं सदस्यैः ॥ ६१ ॥
ईशः स विश्वस्य जितावजय येनात्र कामप्रतिघावराती ।
ताभ्यां जितो यस्तु स हीनसत्वः सर्वस्य दास्यं दिवसैरुपैति ॥ ६२ ॥
स्वस्सुन्दरीनाथ जयेन्द्रियारीनिन्द्रेण किं नाकजुषा जितेन ।
हास्यः पुमान् दीप्तमपास्य धाम धावन्नगौग्रानल निग्रहाय ॥ ६३ ॥
अद्यैव योधाः शतशो हतास्ते दग्धेयमद्यैव पुरी समस्ता ।
किं विस्मृतं क्रुद्ध इवानुयुङ्क्षे यन्मां महाराज विषादतुम् ॥ ६४ ॥
निर्धार्यतां वा विनिवार्यतां वा निर्भर्त्स्यतां वा रजनीचरेन्द्र ।
पृष्टेन पथ्यं भवतस्तथाऽपि वक्तव्यमेवाद्य विभीषणेन ॥ ६५ ॥
अर्ध गतं संप्रति बान्धवानां व्यावृत्य पश्यन् कुरु नः प्रसादम् ।
सर्वानुयोगव्यसनं विहाय पाहि स्वबुद्धया परिशिष्टमर्धम् ॥ ६६ ॥
यैरीषदुक्तः प्रणतिप्रकारः तानेव तातप्रतिमानुपैहि ।
पृच्छाथवा पुष्पकमर्पयित्वा पूर्वाप पूर्वज
॥ ६७ ॥
सख्यं तवो द्वितबले पुरा यज्जातं यथा वालिनि वानरेन्द्रे ।
किं दूषणं दाशरथौ तथैव क्षेमार्थमार्य क्रियतामजर्यम् ॥ ६८ ॥
धन्योऽसि पौलस्त्य सपत्नभावाभ्येति यस्त्वां पुरुषः पुराणः ।
तं सौहृदेनैव पुरः प्रतीच्छ किं मुह्यसि श्रेयसि संमुखीने ॥ ६९ ॥
उत्खातकैलासमहाचलस्य किं तेऽद्य रेणूद्धरणेऽलसत्वम् ।
मोदस्व पश्यन्विशदीकृतेन तं चेतसा रावण रामभद्रम् ॥ ७० ॥
रामो हरिर्भूमिसुताऽपि सा श्रीस्ते देवपुत्राः कपयश्च सर्वे ।
उन्मील्यतां चेतसि चिन्मयी दृक् तत्वानि ते सत्वरमुद्भवन्तु ॥ ७१ ॥
२०३
१. B C त्यश्रु २, A स्मिन्नरीन्नाथ । ३. CD खा ४ B C ग्य ५. BC तत्करणीयपर्व ६ BC योगम्
७. BC थो।