रामचरितम् /233
This page has not been fully proofread.
त्रयोविंशः सर्गः ।
भियैव ।
यस्यान्वयः साहसवेगभाजः तस्यैकशूरस्य शिरः सदोच्चम् ।
यस्य ध्रुवं तुं व्यतिरेक एवं क्लीबस्तले कस्य न सर्वदाऽसौ ॥ ३६ ॥
तादात्विकात्रस्यति कोऽप्यपायादामुष्मिकात्रस्यति कोऽप्यशूरः ।
शूरः स तु त्रस्यति नैव तस्माल्लोकद्वैयोत्थादपि तातवद्यः ॥ ३७ ॥
दैवं भयाद्यस्य सदाऽनुकूलं यस्य क्रियाः
कामदुधा
तस्येशितुः सर्वभयङ्करस्य कोऽसौ पितुर्मे नृपशुर्वराकः ॥ ३८ ॥
शास्त्रादरः सूक्तरसात्पितुर्मे न स्वाभिकामप्रतियन्त्रणाय ।
दास्यं पराज्ञानुविधानमाहुः सर्वस्य तिष्ठत्युपरि प्रभुत्वम् ॥ ३९ ॥
सँञ्चिन्त्यतां मद्भुजनिर्जितोऽपि स्वर्गैकवीरः स परं वृषैव ।
कोऽसौ तपस्वी बत यस्य सोऽग्रे सुग्रीवनामा वनकीटभेदः ॥ ४० ॥
पादाब्जयोर्यस्य भुजप्रतापादिन्द्रादयो दिक्पतयः पतन्ति ।
स प्राणिमात्रं प्रणमत्यमात्यास्तातः कथं जीवति मेघनादे ॥ ४१ ॥
श्रुत्वाऽथ घर्मान्तघनोपमस्य स्निग्धोर्जितं गर्जितमिन्द्रशत्रोः ।
तां राघवामर्षनिदाघतन्द्रां तत्याज रक्षोधिपदन्दशूकः ॥ ४२ ॥
अस्तूयत प्रस्तुतसङ्गरोत्कैरुत्कण्टकाभिस्तनुभिस्तदानीम् ।
योधैर्महापार्श्वमहोदराद्यैस्तद्यौपायुवराजवाक्यम् ॥ ४३ ॥
साधूक्तमादौ हि नयप्रयोगः संग्रामकाले गतिरीहगेव ।
इत्यूचिवांसौ शुकसारणौ च तं जिघ्रतुमूर्धनि मन्त्रिद्धौ ॥ ४४ ॥
२०१
स्वाराड्जितः संयतवातसुनोरेकस्य ते राजति मेघनाद ।
इष्टार्थदृष्टिप्रतिरुद्धवेगं भर्तुः पुरो गर्जितमूर्जितस्य ॥ ॥ ४५ ॥
कार्यत्वराभिः स्खलितं न धैर्यं नौजित्यमस्तं विनयग्रहेण ।
क्षोभोद्भमेनापि गिरां प्रसादः प्रत्यक्षरं प्रागिव दर्शितस्ते ॥ ४६ ॥
जानासि तत्त्वं परमायुधानां जानासि विन्यासमनीकिनीनाम् ।
जानासि मायामरिषु प्रयोक्तुं जानासि जेतुं च रणे सपत्नान् ॥ ४७ ॥
90
१. BC वस्तु । २. A ल ३ BCD स । ४. A क्कासौ दशग्रीवतलौकसां वः ५. BCD न हितः ।
६. BC सं । ७. BC द । ८. Aपि । ९. BCD म । १०. B CD नियमात्त्वमेव ।
२६