रामचरितम् /230
This page has not been fully proofread.
.विभीषणविवासनो नाम
त्रयोविंशः सर्गः ॥
90+
सीताशिषोऽन्ते' लवगः क्षणेन पारं प्रयातेः प्रमनाः पयोधेः ।
तत्पुच्छकोटिप्रभवश्चिरेण दाह्यौवसानं दहनो जगाम ॥ १ ॥
भेजे न मूलं जनकात्मजायाः तत्याज देवालयदिग्विभागान् ।
व्यावृत्य रक्षोभवनेषु भूयश्चक्रे शिखी चर्वितचर्वणं सः ॥ २ ॥
हैमैर्द्रवीभूर्यं गृहैर्वितस्थे तस्थे कथाभिः कुथसंहतीनाम् ।
धौतत्वमासाद्य परं विरेजुस्तत्राग्निशौचांशुकमण्डपौघाः ॥ ३ ॥
निर्गत्य वेलागिरिकन्दराङ्काल्लङ्कालया: स्वालयसंनिवेशान् ।
अप्रत्यभिज्ञाधिगमादमार्गन्मार्गेण शुद्धान्तगृहस्थलीनाम् ॥ ४ ॥
शीतातिभीतेरिव वर्जितायां तेनापि तीव्रद्युतिनाऽनलेन ।
प्रालेयसंघातशिलासभायामन्वेषकेरैक्ष्यत राक्षसेन्द्रः ॥ ५ ॥
श्रुत्वाऽपि लङ्कनपुरवैशसं तत्खेदं न लङ्कनधिपतिर्जगाम ।
मूढो मरुन्नन्दनदेहदाहसन्देह एव प्रमुदं बवन्ध ॥ ६ ॥
सस्मार पूज्यं मयमेति शङ्कां यस्याद्भुते कर्मणि विश्वकर्मा ।
जामातुरिच्छानुग इन्द्रजाली लङ्कां स पूर्वाभ्यधिकां चकार ॥ ७ ॥
ताः संपदस्ता विशिखाः सशाखास्ता योषितः पुण्यजनास्त एव ।
तान्येव सद्मानि तदेव सर्वं दुस्स्वनतुः स बभूव दाहः ॥ ८ ॥
दध्युः प्रवृद्धं व्यसनं तदेव तां नोत्तमाः संपदमभ्यनन्दन् ।
सर्वस्वमादाय गते हि शत्रौ बन्धूपॅनीतैर्द्रविणैघृणैव ॥ ९ ॥
दृष्टो मयाऽसौ मलयस्थितेन स्वस्थ: स्वयूथ्यैः सह मोदमानः ।
जित्वा जवित्वात्पुनरब्धिमेष जाने तवाक्रामति राजधानीम् ॥ १० ॥
• वेलातटस्थेन मयाऽपि दृष्टो निर्वापयन्वालधिमम्बुराशौ ।
दृष्टः सुवेलाग्रजुषा मयापि सीतां स भूयः मणिपत्य गच्छन् ॥ ११ ॥
१ A तां सिषेवे । २. AB पपात । ३. Aहा ४ BCD हेमद्रवैर्भुप । ५. A D सी । ६. BC
कल्पः । ७. BCD चक्षुः प्रणी ।