This page has not been fully proofread.

द्वाविंशः सर्गः ।
 
भवोत्थिता देवि दहत्युपान्ते स्वयं तवोपाश्रयमाश्रयाशः ।
धुनीहि धंमिल्लमलातमेतच्च्युतं वितानादिह दह्यमानात् ॥ ८४ ॥
अहं गमिष्यामि सहालयेन स्वमालयं गच्छत साँविदल्लाः ।
कुतोऽपि कुब्ज व्रज यत्र जीवस्यशक्तिके किं न वहिः स्थिताऽसि ॥ ८५ ॥
 
विमुञ्च कालव्यजनं भुजङ्गि स्फुलिङ्गकति मारुतोऽस्य ।
किमातपत्रेण तरङ्गि नूनममी ममालातचयास्तपन्ति ॥ ८६ ॥
नमोऽस्तु ते चित्रमनोभवाय भवान्तरे कौतुकवेदि भूयाः ।
क्व सालभञ्जि त्वमुदीक्षितव्या गतास्मि भव्यां भवनं तवैतॆत् ॥ ८७ ॥
तपन्त्यमूरर्कशिलावलंभ्यः प्रसीद वामोरु विमुञ्च वाम्यम् ।
यथा भजेथाः शशिकान्तवीथीमदूरधारागृहशीकॅरेण ॥ ८८ ॥
अयं न हारः शिशिरोऽधुना मे घिनोति नेदं हरिचन्दनाम्भः ।
विलीनमङ्गेषु मृणालमालि स्फुटानलज्वालमिदं गृहं मे ॥ ८९ ॥
कुतस्त्यमोर्जंः सहसेदमग्नेः क्व भक्तिशाठ्यं वरुणस्य चैतत् ।
किमेकदैवास्तमितं पुरेऽस्मिन्महो महाराजदशाननस्य ॥ ९० ॥
इति स्फुटार्चिर्भयचञ्चलानां वचः पृथक्काकुतरङ्गतारम् ।
भटैः परित्रातुमशक्नुवद्भिर्विशुश्रुवेऽन्तः पुरसुन्दरीणाम् ॥ ९१ ॥
पुरमिति कृती कृत्वा स द्राक् प्रदीप्तगृहावालि
स्वगतमनलं तं नीराणां निध निरवापयत् ।
कपिरधिगतातङ्क: सीतासमीपमगात्पुनः
विदितसुमहाश्चर्यः पश्चाज्जगाम यथागतम् ॥ ९२ ॥
इत्यभिनन्दकृतौ रामचरिते महाकाव्ये लङ्कादाहो नाम
द्वाविंशतितमः सर्गः ॥
 
ईति लेखयति स्म लेखकैर्निजकर्माधिकवेतनाभृतैः ।
अभिनन्दनिबन्धगौरवाद्युवराजः शतकीं कथामिमाम् ॥
 
१९७
 
१. A व्यं २. BD न चै । ३. A त्यमूरार्कशिखा ४. BC बाष्पम् । ५. A गृहिणीं । BC करशा
 
६, A स्त्वमर्चिः । ७, BCD विनिधापयत् । ८. AC omit this sloka