This page has not been fully proofread.

द्वाविंशः सर्गः ।
 
इतस्ततो
 
दाहवशात्तथाऽऽसीदिभाश्र्श्वसांराविणमुज्जिहानम् ।
यथा वचत्राणवनीपकानामसौ कृणोति स्म न वानरेन्द्रः ॥ ६० ॥
अभून्न भूतं शिखिनस्तदाऽन्यत् क्रिया न दाहादितराऽऽविरासीत् ।
गतव्यपेक्षा जगदुः प्रकाशं दशास्यदोषादपरं न पौराः ॥ ६१ ॥
तथा न रेजे पुटपावकान्तः क्षपाचरौघः कुलमन्दिरेषु ।
यथा बहिस्तत्प्रभवासु मज्जन विटङ्क रत्नद्रुतिनिम्नगासु ॥ ६२ ॥
वितस्थिरे केवलमर्थहार्दान्निशाचरेन्द्राः सदनोदरेषु ।
ज्वलद्भिरङ्गैर्निरगुः कथंचिन्न किंचिदादातुमलं बभूवुः ॥ ६३ ॥
जवेन केचिज्जगृहुर्दिगन्तान्ययुर्ज्वलन्तो जलराशिमन्ये ।
असृग्भुजो निर्झरशीकरालान् सुवेलसानूनपरे परीयुः ॥ ६४ ॥
कपिः स दग्धो न विलोक्यतेऽग्नावदग्धमस्मन्नगरे न किंचित् ।
अयं बतोत्कीर्ण इवाग्निगोलाद्वलीमुखः क्रामति नः क्षयाय ॥ ६५ ॥
 
अयं मरुद्वह्निरयं यमोऽयमयं कटुर्नो दुरितस्य पाकः ।
दहेदितोऽस्मान् सुतलेऽपि लीनानसंशयं दुस्सहदीप्तिजालः ॥ ६६ ॥
 
बत ज्वलत्येव तरङ्गमाली तिमिङ्गिलानामपि डिम्बमुच्चैः ।
हतः शिखाभिर्मलयोऽपि नूनं पुरैव लङ्कगतिलकः सुवेलः ॥ ६७ ॥
 
न बोधितः किं वत कुम्भकर्णः किमिन्द्रजिन्नोज्झति वारिदास्त्रम् ।
क्व स प्रहस्तः क स पण्डितो वा विभीषणः शास्तु कुलस्य शान्तिम् ॥ ६८ ॥
 
इति ब्रुवाणा विधुरं विचेलुर्विचेलबीभत्सशरीरभाराः ।
इतस्ततस्तत्र हुताशडिम्बे कुटुम्बिनस्त्यक्तंकलत्रपुत्राः ॥ ६९ ॥
 
परस्य दाहश्रवणादसाधुः स्वदेहदाहेऽपि धृतिं बबन्ध ।
अमोदत व्यापदि तर्ककाणामपेतमाप्त्वेव धनं कदर्यः ॥ ७० ॥
 
अचिन्तयल्लाभसमं दरिद्रः समृद्धसाधारणमात्मदाहम् ।
समस्तदाहँ विममर्श न स्वं जहर्ष विद्यसनेन मूर्खः ॥ ७१ ॥
 
१ BD दानीं । C थसिद्दिगास्य । २ C मा ३ BAD चभेजे पुटपाकमन्तः । ४ A किरनयुति । BC
 
च्छवि । ५ CD स्रस्त । ६ D तेवचनम् । ७. A नाशं ।