This page has not been fully proofread.

१९४
 
लङ्कहो नाम
 
मुखारवः प्रादुरभूत्पुरस्तात्तिरोदधे येन समुद्रघोषः ।
 
इतस्ततः प्रस्फुटतां मणीनां ममज्ज सोऽपि ध्वनिषूत्कटेषु ॥ ४७ ॥
क्वचित्पताका इव कार्दमिक्यश्चकाशिरे धामस धूमरेखाः ।
शिखाचैयोल्लोचकैराजिरुञ्चैः क्वचिच्च माहारजनीव रेजे ॥ ४८ ॥
 
रुचं क्वचिद्विश्लथवेष्टनानां ततान धूमोर्मिचयः कचानाम् ।
क्वचिच्च मूले विदधुः कृशानोः श्रियं शिखाः काञ्चनकर्तरीणाम् ॥ ४९ ॥
 
शिखी स लाहुतिलालितार्चिः न सिन्धुवेलावनमप्यहासीत् ।
सुबेलमारुह्य लिलेह नाकं शिखाभिराब्रह्मनिकेतमूलात् ॥ ५० ॥
तथा न पूर्व त्रिपुरेन्धनोऽग्निर्गभस्तिजालैगगनं वितेने ।
 
यथा स तर्हि क्षणदाचराणां पुरे प्रगल्भोच्चशिखो हुताशः ॥ ५१ ॥
अलङ्घयद्योम शिखावलीभिर्विलीनमेघावलिभिः स वह्निः ।
अकाण्डसंजातयुगान्तशङ्क: सुरैः समाधिव्ययदृष्टमूलः ॥ ५२ ॥
फलद्विचित्रोपलदीप्तिरेखः शिखी स लङ्कनपुरदाहदक्षः ।
खमानशे लोलशिखासहस्रः सहस्ररश्मेरभिभूय भासम् ॥ ५३ ॥
सपुष्पभारैरिव कर्णिकारैर्मरुद्विकीर्णैरिव हेमशैलैः ।
तदाऽभिलङ्क युगपज्जजृम्भे जगत्क्षयारम्भ इवाश्रयाशः ॥ ५४ ॥
क्वचिज्जपाभाः क्वचिदब्जभासः क्वचिच्च कुन्दद्युतयोऽग्नयस्ते ।
विवन्नुरभ्रंलिहतामुपेताः सुरेषु वैचित्र्यमुपाश्रयाणाम् ॥ ५५ ॥
जलैर्जहासे विधुतैर्दिदीपे हतैः प्रतिघ्नन्नधिकं चुकोप ।
 
स कोऽपि सामीरिललामलम्बी लिलेह लङ्कामभितो हुताशः ॥ ५६ ॥
 
जलं जलं यावदुदीरयन्ति निशाचराः क्वापिच तावदासीत् ।
समाप्तकृत्यस्य विभुत्वशंसी सितेतरी वातरथस्य पन्थाः ॥ ५७ ॥
अपि प्रदीप्तानि हिरण्मयत्वान्न भस्मभूयं भवनानि भेजुः ।
ययौ रसावैर्तविलम्बितार्चिर्लयं न लङ्कनपुरधूमकेतुः ॥ ५८ ॥
विजित्य पौलस्त्यभटावलेपं कपेः स्थितस्य स्फटिकालयेषु ।
स्फुटानलार्चिःपटलीच्छलेन यशः प्रतापौष्ण्यमिवौष्ण्यमार्पै ॥.५९ ॥
१. B खोच्च । २. A लोचन ३. Aन्ति । ४. A पोष्णमिवोल्ललास ।