This page has not been fully proofread.

द्वाविंशः सर्गः ।
 
विधूय लाङ्गूलमथ स्फुलिङ्गैस्तदङ्गणं पिङ्गलदिग्वितेने ।
ववल्ग विक्षिप्तसटाकलापस्ततस्तटित्पुञ्ज इवाञ्जनेयः ॥ ३५ ॥
ततश्च मुक्त्वा कपिरट्टहासं विस्फोटितपुच्छदण्डः ।
पपात पृष्ठेषु महागृहाणां गृहीतकालानलरुद्रलीलः ॥ ३६ ॥
सरेचकैः कुत्रचिदङ्गहारैचचार चारीभिरिव क्वचिच्च ।
क्वचिच्च पुच्छान्तविदाहवेगाद्विय द्वितेने करणैर्विलंग्नैः ॥ ३७ ॥
 
मुमूर्षुरेष प्लवगस्तपस्वी विचेष्टतेऽर्चिःपरिविष्टकायः ।
किमीक्षणेनेति विभीषणाद्याः कृपालवः कोमलकण्ठमूचुः ॥ ३८ ॥
चचार चीरान्तविलोलमर्चिर्न तस्य लोमान्यपि पुच्छभाञ्जि ।
सुरार्थरुद्धो बहिरेव सोऽग्निर्ललन्यथालब्धविग्रॅस्मरोऽभूत् ॥ ३९ ॥
पररीत्य पौलस्त्यसभामियाय प्लुतैः प्लवङ्गः पटलानि धाम्नाम् ।
जगाम सीताश्रवणोपशल्यं स दाहपर्यायमहानिनौदः ॥ ४० ॥
स्थितं ददर्श स्वयमेव देवी कपिं तमन्तःपुरसौधपृष्ठे ।
विलोलपुच्छान्तविसारिणीभिः शिखाभिरग्नेः परिवेषवन्तम् ॥ ४१ ॥
हताऽस्मि हा दैव हुतोऽयमग्नौ न युक्तमग्ने भगवन् प्रसींद ।
वियोगदग्धामपि मां दहेमां विमुच्यतामार्यसुतस्य दूतः ॥ ४२ ॥
 
भवातिशीतः प्लवगे प्रियोक्तौ तपन्तु मामेव शिखास्त्वदीयाः
तपस्विनीयं प्रणमामि दूरादनातुरो गच्छतु वानरेन्द्रः ॥ ४३ ॥
 
अवन्तु गङ्गायमुनासरखो हुताशन व्यापदि वानरेन्द्रम् ।
तनोत्वमुष्मिन्नमृतस्य धाराः स धर्ममेघः स्वपितुः सनाभिः ॥ ४४ ॥
 
अमुं तपो रक्षतु लक्ष्मणस्य तदार्जवं रक्षतु चार्यस्नोः ।
वलीमुखं रक्षतु संशयस्थममायमन्तःकरणं ममापि ॥ ४५ ॥
इतीरितेनेव पतिव्रतायाः प्लवङ्गमस्याङ्गमवाधमानः ।
समन्तसंचारितचञ्चलार्चिः सोऽग्निर्दशग्रीवपुरीं परीये ॥ ४६
 
१९३
 
१. A र २. BC नूनंयथालध्वपि ३. DB विरावः । ४. Aश्च पितुः समाधिः । ५. A पुरीं परिष
शिखी सशाखाम् ।
 
२५