रामचरितम् /224
This page has not been fully proofread.
१९९
लङ्कादाहो नाम
मिथोऽस्रपानोन्मदयक्षरक्षःसमाकुलेषु प्रधनाङ्गणेषु ।
समापप्तत्खेचरहस्तमुक्ता गदाऽग्रजस्य स्रगिवोत्तमाङ्गे ॥ २३ ॥
इतीदमुक्त्वा तमसौ तदानीं तदुत्तरोक्तिश्रुतिनिर्व्यपेक्षः ।
प्रदीपयामास भटान्वचोभिरुपोढहेतिव्यसनव्यलकान् ॥ २४ ॥
श्रुतं वचोऽस्य क्षणदाचरेन्द्राः क्षतो न शस्त्रैर्निशितैरयं वः ।
विचिन्त्यतामाशु वधोऽस्य बुद्धया दुनोति जल्पन्मुखर: शिरांसि ॥ २५ ॥
कपिब्रुवः कोऽध्ययमप्रियोक्तिरुपागतः स्वस्य वधं विमार्गन् ।
अनर्गलेनाननवर्त्मनाऽऽशु निवेश्यतां संप्रति जाठराग्नौ ॥ २६ ॥
निरायतास्वादमैनोरथान्तमुपैतु वास्मिन् रसनावली वः ।
प्रदत्त यहाँ दशनाङ्कुराणामनेन वल्लूरसुखं सखायः ॥ २७ ॥
विबोध्यते किं बत कुस्भकर्णः त्वमेव रे कुम्भ कुरु प्रयत्नम् ।
अश्नातु वा देहशतं विधाय भवन्निकुम्भाद्य कृतं भयेन ॥ २८ ॥
ययौ यतेः कुम्भभवँस्य कुक्षौ जरामुरभ्राकृतिरिन्द्रशत्रुः ।
क एष कस्यापि नराधमस्य निदेशकारी बत वानरो वः ॥ २९ ॥
न रोचते वः कृपणः कपिश्चेदयं महामांसभुजोऽस्मदीयाः ।
उदीर्णनैर्घृण्यगुणाय तर्हि वितीर्यतां सर्वभुजेऽनलाय ।॥ ३० ॥
वसादिकस्नेहविशेषदिग्धापनद्धकार्पासिकवाल्कफालः ।
विलोक्यतां वालविलग्नवहरयं किमहाय कपिः करोति ॥ ३१ ॥
इतीरिते तेन रदान्वितेने विलोकयामास मुखानि तेषाम् ।
भयेङ्गितज्ञाः किल ते हताशा: हुताशमादाय तमभ्यगच्छन् ॥ ३२ ॥
पुरस्तथापीक्षिनुमास्यभासं न सेहिरे तस्य दशास्यदासाः ।
अदीपयन् पृष्ठजुर्षोऽशुकान्तं कथंचिदानीय ललामलग्नम् ॥ ३३ ॥
भयात्तदानीं किल सोऽतिमात्रं तथाऽणिमानं प्लव: प्रपेदे ।
प्रपुष्वे मोचितकण्ठपाशः यथा क्षणादङ्गणवेदिकायाम् ॥ ३४ ॥
१. A तत्वाद २. AC पद्या ३. AC मुखं सुखाय । ४ A चेत्कु ।५. ABD अशक्नुवन्देह्यसितं
भवेऽस्मिन्लवं । ६. D चर ७. BCD चार्माधि ८. B ली ।