रामचरितम् /223
This page has not been fully proofread.
द्वाविंशः सर्गः ।
न चेदिदं रावण वानरेण मयेत्थमाक्रम्य कटूच्यसे त्वम् ।
शृणोषि तच्च मणमद्भिरास्यैः खगेन्द्रसंपातमिवोरगेन्द्रः ॥ ११ ॥
न सर्वदाऽऽशाः पिदधाति काली न सर्वदाऽऽपः श्लथयन्ति सेतून् ।
न सर्वदार्कस्तपति क्षितिधान्न सर्वदाऽग्निदहति दुमालीः ॥ १२ ॥
कृतं त्रिलोकीकदनं कदापि त्वयैकवीरत्वमुपागतेन ।
निषीदै संप्रत्ययमन्तमेषि वयं कृतान्ताः कपयः शतं ते ॥ १३ ॥
रिपुः सखा वा भव नो दशास्य प्रतीच्छ रामस्य शिरोभिराज्ञाम् ।
द्रविष्यति द्रोहपरेऽपि स त्वय्यपेतमात्सर्यमना महात्मा ॥ १४ ॥
प्रहर्तुमिच्छाऽस्ति भटाः पुनश्चेत् समेत्य शस्त्रान्तरमाददीध्वम् ।
विधूय गच्छामि तदप्यखेदान्मरुत्तरूणामिव पाण्डुपत्रम् ॥ १५ ॥
तवैककस्य क्षणदाचरेन्द्र मयेह बाहुद्रविणं न दृष्टम् ।
विलोकयिष्यामि तदप्यदूरादयं पुरो दाशरथेर्भवामि ॥ १६ ॥
इति ब्रुवाणं प्लवगं तमूचे निशाचरेन्द्रस्त्रपसे न धृष्टः ।
अनेन हेलोज्झितहस्तहेतिप्रमाथमात्रेण विकत्थमानः ॥ १७ ॥
विलासिनीनामिव मोहनेषु विलोलधंमिल्लकुरुण्टकानि ।
मयि व्यलुप्यन्त महाहवेषु ककुप्पतीनां परमायुधानि ॥ १८ ॥
कदाऽपि चक्रेण हरेरवाप्तं न मर्म वर्मक्षतनेमिना मे ।
बहिर्वृतिक्रान्त्यसहेन सारं कुतस्करेणेव महालयस्य ॥ १९ ॥
प्रदीपमालाविव नश्यति स्म क्षणेन खद्योतकतामुपेत्य ।
असौ. ममोष्णीषमणिप्रभासु सहस्रनेत्रस्य सहस्रधारः ॥ २० ॥
१९१
किमङ्गनानां भुजकन्दलीयं प्रसूनगर्भच्छददाम किं वा ।
विकल्प्य कण्ठेष्विति जन्यमूर्ध्नि मयाऽनुभूतो वरुणस्य पाशः ॥ २१ ॥
व्यलीकमन्युष्विव कामिनीभिः श्लथोज्झितस्यै स्मरदुर्बलाभिः ।
पतन्ममाङ्गेषु तुलामवाप मृणालकाण्डस्य यमस्य दण्डः ॥ २२ ॥
१. C प्रसी २. D लो हमात्मा ३. A स्स्ववशेन ४ BCस्व । ५. Dप । ६. BCD महायु ।
७. A वामा ८. BC श्लाघ्योद्य ।