रामचरितम् /222
This page has not been fully proofread.
लङ्कादाहो नाम
द्वाविंशः सर्गः ॥
शकभूपरिपोरनन्तरं कवयः कुत्र पवित्रसंकथाः ।
युवराज इवायमीक्षितो नृपतिः काव्यकलाकुतूहली ॥
तदादिना तेनँ महाभटानामकाण्डभङ्गेन विघूर्णमानम् ।
अवोधयत्पङ्किमुखं हनूमान्निपातमिच्छन्निव तस्य रोद्धुम् ॥ १ ॥
जितास्तवामी सुभटाः पुरस्तान्मयैकशाखामृगशाबकेन ।
विरम्यतां रावण वैरबन्धाद्भरं विसोढाऽसि न यूथपानाम् ॥ २ ॥
भयादमी ते न वदन्त्यमात्या न रामदूतस्य भयं ममास्ति ।
अतो हितं कारुणिकत्वदोषाद्दशानन त्वामनुशास्मि भूयः ॥ ३ ॥
विलोकितं बाहुबलं भटानां विलोकितं स्थाम कपेर्ममापि ।
विधेहि विद्वन्नधुनाऽनुरूपं किमध्वना गच्छसि शालभेन ॥ ४ ॥
अपि प्रयुक्तापकृतौ त्वयीत्थं न मे हृदि प्रत्यपकर्तुमिच्छा ।
प्रधावितानक्षमयाऽल्पसत्वानुदारसत्वाः क्षमया जयन्ति ॥ ५ ॥
प्रदीप्तमेतज्जगदक्षमस्य क्षमस्य सर्वत्र मनः प्रसन्नम् ।
स भीतिवेगो यदुपेतमग्रे कटुस्वनः श्वा भषते महोक्षम् ॥ ६ ॥
अतो न मेऽस्ति त्वयि काप्यसूया शमस्य पृच्छ स्फुटमभ्युपायम् ।
न मादृशाः शासति युष्मदादीनपि महर्तु प्रसृतानैपथ्यम् ॥ ७ ॥
रजोजुषः सत्यपराङ्मुखस्य स्वकन्धरालीकदनं कियत्ते ।
तमुग्रपाकं मखदीक्षितस्य स्मरानरण्यस्य वधं नृपस्य ॥ ८ ॥
स्मर स्मरारिप्रमथस्य शापं बत प्लवङ्गेषु जिजीविषा चेत् ।
तपः कुसृत्यैव तवापकृष्टं तटीतरोः पत्रमिव स्रवन्त्या ॥ ९ ॥
गतः स कालस्तुलितो यदाद्रिस्त्वया जगद्रोहपरायणेन ।
तवाद्य पापोष्मविलीनशक्तेस्तृणान्यपि व्याकृतगौरवाणि ॥ १० ॥
१ A reads this, । २ BD दिनान्ते । ३ B D पुन्नप्रणया ।