This page has not been fully proofread.

एकविंशः सर्गः ।
 
अतिक्रान्तास्त्वयाऽन्धेन शीताः सद्गुरुशाखिनः ।
क्व दुर्नयातपक्लान्तो विश्रान्ति लभसेऽधुना ॥ १२१ ॥
किं ते कृतं सुरगणैर्यत्तान्मध्नास्यहर्निशम् ।
अजितो रिपुरात्मैव तं मूढ न जिगीषसि ॥ १२२ ॥
नियतिं प्रतिपश्यद्भिर्यापितोऽसि जिंतात्मभिः ।
तत्रैव तव दुर्बुद्धेर्जितबुद्धिरजायत ॥ १२३ ॥
जानांसि वालिनो वीर्य तत्समस्तत्सुतोऽङ्गदः ।
अधिको वा युवत्त्वेन युवराजः स तेऽन्तः ॥ १२४ ॥
पारौद्भवं वारिनिर्वालिसुनुसौ वली ।
उन्मूलनाय भवतो मद्विलम्बादिष्यति ॥ १२५ ॥
 
नीलस्तमनु सेनानीरानालः प्रलयाय ते ।
कालाग्निरिव संक्रुद्धः क्षणार्धादागमिष्यति ॥ १२६ ॥
 
इति वदति पुरस्ताद्वानरे नेतरीव त्रिभुवनरिपुट्ट रोषवेगाज्जहास ।
सदृशनियमहेतोः पश्यतः स्वायुधीयान् स बत हत हतेति व्यक्तमेवादिदेश ॥ १२७ ॥
जलमुच इव धारावारिभिर्वारणेन्द्रं नगमिव नदपूरास्तीरभाजन्तरङ्गैः ।
कपिवृषमभिजघ्नुर्यातुधानास्तदानीमसिमुसलभुशुण्डीमुद्गरब्रह्मदण्डैः ॥ १२८ ॥
पटलमिव हिमानामह्नि मध्यस्थभानौ विहसितमिव साधौ निष्पकम्पे खलानाम् ।
रजनिचरभटानामस्त्रजालं तदुच्चैः स्वयमवसितमासीन्मारुतौ वज्रकाये ॥ १२९ ॥
विकलसकलकाया मोघसर्वास्त्रमोक्षाः क्षतजनदपरीताः प्राणसंदेहभाजः ।
दहनसखसुतस्य स्पर्शमात्रेण रोम्णामवनिमवनिपेतुस्ते शतं यातुधानाः ॥ १३० ॥
 
इत्यभिनन्दकृतौ रामचरिते महाकाव्ये
रावणसल्लापो नामैकविंशः सर्गः ॥
 
चन्द्रसूर्य निदघे जगत्सु व्यासस्य यद्वज्जनमेजयेन ।
एषोऽभिनन्दस्य महाप्रबन्धः क्षोणीभुजा भीमपराक्रमेण ॥
 
१. BD य । २. D ज्ञाता । ३. A न्तिकात् । ४. Dदा C रो। ५. BCDE omit this
sloka ६ AD पतिरङ्गं । ७. Comits this sloka.