This page has not been fully proofread.

१८८
 
रावणसल्लापो नाम
 
श्रुतमस्मद्वचः सभ्याः समृद्धं च कुतूहलम् ।
 
हन्तव्याः संप्रति वयं किं नोत्तिष्ठन्ति घातकाः ॥ १०८ ॥
 
कृतं न किंचिदक्षेण रजोऽस्तं जम्बुमालिना ।
इदं मे मेघनादेन ग्रीवायां सूत्रमर्पितम् ॥ १०९ ॥
दर्शयिष्यामि युष्माकमपि प्रौढिं सभासदः ।
अङ्गदायै गतः पारमङ्गैरक्षतरोमभिः ॥ ११० ॥
अस्तु रामोऽस्तु सौमित्रिरस्तु राजा रवेः सुतः ।
एकस्य तच्चमूरेणोर्बलं रावण पश्य मे ॥ १११ ॥
हितं वा शृणु मे वाक्यमोमिति त्यज्यतामियम् ।
जानकी जगदीशस्य रामस्य पत पादयोः ॥ ११२ ॥
सुव्यक्तं स्वयमन्धोऽसि देशका अपि ते द्विषः ।
यैरयं पात्यसे कूपेष्वनाथः शुचमसि ॥ ११३ ॥
रामस्य रामजयिनः स्वस्यार्जुनजितस्य च ।
व्यक्तं पश्यान्तरं तावदारभेथास्तथा सति ॥ ११४ ॥
पुरुषः सदृशारम्भी फलैः पौलस्त्य युज्यते ।
किमद्रौ विन्दति पतन् प्रतिघातादृतेऽनिलः ॥ ११५ ॥
 
विद्वानसि दशग्रीव रामे किमपराध्यसि ।
अचेतनोऽपि नमति पश्य स्रोतसि वेतसः ॥ ११६ ॥
 
तेजोदरिद्रं रजनावाक्रामति जगत्तमः ।
नेष्टे तद्गृहमात्रेऽपि दीपे शुभदशाजुषि ॥ ११७ ॥
बलत्यत्युच्चमासाद्यै नद्योधैः सुमहानपि ।
प्रतिस्खलन्निहास्मासु त्वमपूर्वो जडाज्जडः ॥ ११८ ॥
त्वं हि पौलस्त्य विदितो वेदवानग्निमानिति ।
कथं बत विमग्नोऽसि परस्त्रीहरणागसि ॥ ११९ ॥
रामं मनुजशार्दूलं जिगीषन विलज्जसे ।
 
विजेता यस्यै ते भस्मीभूतो मदनगर्दभः ॥ १२० ॥
 
१. BD दा । २. A चलत्युच्चं समासाथ । D बलवत्युच्चमासाद्य । ३. C घोषः । ४ A पश्य ।