This page has not been fully proofread.

एकविंशः सर्गः ।
 
महेन्द्रस्य गिरेः शृङ्गात् प्लवङ्गो हनुमानहम् ।
उल्लङ्घताब्धिवैदेहीं त्वां चान्वेष्टुमिहागतः ॥ ९६ ॥
मत्तसुप्तेषु रक्षःसु विचित्य निखिलां पुरीम् ।
सा शोकविधुरा देवी दृष्टाऽशोकवने मया ॥ ९७ ॥
स दृष्टस्तव दुष्टस्य तस्यामुपगमादरः ।
निर्भर्त्सनाविमनसो निर्गमञ्च ततः पुनः ॥ ९८ ॥
देहत्यागोद्यतायां च तस्यां निष्पतिते त्वयि ।
मयोक्तो रामसन्देशः प्रतिसन्देशहारिणा ॥ ९९ ॥
 
रामसुग्रीवयोः सख्यं श्रुतवानसि रावण ।
उक्तस्त्वयि कथं नायमस्मद्दिग्विचयश्वरैः ॥ १०० ॥
 
वने विन्यस्यति पदं कियन्मात्रं शिखी पुरा ।
स जायते पुनस्तावान्यावन्मात्रैमिदं नभः ॥ १०१ ॥
तेजस्विनो वितन्वन्ति प्रारम्भेषु न डम्वरम् ।
स्फुरै प्रतापाश्चरमं क्रममाणाचकासति ॥ १०२ ॥
उदायुधानि पुरतः संपतन्ति पतङ्गवत् ।
रक्षांसि रजनावेव निहतानि मया तत्र ॥ १०३ ॥
नोक्तं त्वये कृपणं तव रावण सैनिकैः ।
कथं तानवगच्छामि कुमाराँनतिकर्कशान् ॥ १
अर्पि निर्वन्धरुष्टेन मया समरमूर्धनि ।
विक्रमोत्कर्षवात्सल्यादयं ते शेषितः सुतः ॥ १०५ ॥
 
१०४ ॥
 
स्वयमुत्पत विस्रब्धं वीरान्वा पुनरादिश ।
पुरः प्रतिनिविष्टस्य यत् क्षमं तत्कुरुष्व मे ॥ १०६ ॥
ऊढोऽयमिन्द्राजित्पाशस्तवापि बलमीक्षितुम् ।
दत्तमङ्ग प्रहर भोः प्रभुकृत्यं विलम्वते ॥ १०७ ॥
 
१८७
 
१. C घृ. D तु । २. BC द्विधविधि । D द्विविधविस्तरैः । ३. A न्यावतोऽल्पमिदं । ४. A प्र ।
 
५. A परि । ६. A यै । ७. AC इति । ८ AC ति