This page has not been fully proofread.

१८६
 
रावणसल्लापो नाम
 
भूयिष्ठं त्वयि जिघ्रामो वानरे नरसंगतिम् ।
कथय स्फुटमस्मासु निह्नवे दण्डमर्हसि ॥ ८४ ॥
तदैव दैवहतयोः तयोः श्लथमित्र श्रुतम् ।
पणपूर्वकमस्माभिः सख्यं सुग्रीवरामयोः ॥ ८५ ॥
स्वीयानामिव मे धाम्नामध्यक्षाचारचक्षुषः ।
चतुर्दशानामभितो विष्टपानां प्रवृत्तयः ॥ ८६ ॥
वधबन्धादयस्तास्ताः कारणैः कृपणस्य ते ।
पुनरुक्ता इवाभान्ति परिक्षिप्तस्य मद्भः ॥ ८७ ॥
कुम्भकर्णः किमत्राह किं ब्रवीति विभीषणः ।
किं चेतसि प्रहस्तस्य मेघनादः किमिच्छति ॥ ८८ ॥
 
भो भो भटाः स्फुटमयं विषमो वानरश्वरः ।
सदृशं क्रियतामस्मिन्नित्युक्त्वा गिरमारमत् ॥ ८९ ॥
 
ध्वनिः स तस्य गम्भीरः सभां संपूर्ण निर्ययौ ।
त्रिलोकीमिव कल्पान्तमेदुरस्य पयोमुचः ॥ ९० ॥
प्रशशंसुर्नृशंसास्ते न परं तस्य तद्वचः ।
प्रकाशयन्तोऽनु दूरतस्त्रिदशा अपि ॥ ९१ ॥
अहो' भयं नाम महत्तदानीं मरुतोऽपि यत् ।
मारुतेरत्ययावेदि तद्वाक्यमुपतुष्टुवुः ॥ ९२ ॥
 
अयमार्यो महाराज श्रूयतां तावदाह किम् ।.
इति वाचि समस्तानामन्वयुङ्क्त स तं पुनः ॥ ९३ ॥
 
प्रश्नेषु तस्य बहुषु कृत्वा किंचिदिव स्मितम् ।
अजातसंभ्रमो वाक्यं वानरः स्वैरमाददे ॥ ९४ ॥
प्रज्ञावानसिं पौलस्त्य त्वयेदं साधु तर्कितम् ।
कस्यापि दिक्पतेर्नाहं रामस्याहं जगत्पतेः ॥ ९५ ॥
 
१. BC दो। २. Dह । ३. A जः ।