रामचरितम् /217
This page has not been fully proofread.
एकविंशः सर्गः ।
आभिमुख्यं प्रपन्नेन मुखेनैकेन सोऽब्रवीत् ।
प्राश्निकैरिव पार्श्वस्थैरित रैमनमाददे ॥ ७२ ॥
कुतः कस्त्वं कथमिह प्रविष्टः केन हेतुना ।
वद वानर निश्शङ्कम वत्सस्य वर्तसे ॥ ७३ ॥
आवर्जितः शक्रजयी त्वयाऽयं पुण्यवानसि ।
गच्छ मुक्तोऽसि दुष्टोऽपि मा पुनश्चापलं कृथाः ॥ ७४ ॥
किमभाङ्क्षीः क्षितिरुहान् किमक्षमवधी: शिशुम् ।
अनुयोगक्षमो नासि कपिजातेः परिप्लाँत् ॥ ७५ ॥
कच्चिद्वालिसगन्धस्त्वं साध्वभून्न हतोऽसि यत् ।
सत्यं मानुषमात्रेण मित्रं तन्मे निपातितम् ॥ ७६ ॥
न जातु पुरुषो हन्ता निहन्त्री नियतिः परम् ।
यत्त्वमप्यवधीर्योधं जम्बुमालिनमाहवे ॥ ७७ ॥
निशीथ एव किमितो न गतोऽसि यथागतम् ।
कामकारः कुमारेषु कोऽयं सर्वङ्कपस्तव ॥ ७८ ॥
अलीनां कोकिलानां च तन्मे साधारणं वनम् ।
तत्र कश्चिन्न विशतो दोषः शाखामृगस्य ते ॥ ७९ ॥
स्तेनवत् किं प्रविष्टोऽसि धाष्टर्यमस्ति रणेषु चेत् ।
चरन्तीत्थं गृहच्छिद्राण्याखवो न वलीमुखाः ॥ ८० ॥
याद त्वमर्थलोभेन प्रवि॒ष्टो नगरीमिमाम् ।
तन्नः प्रार्थय दीयन्तां कति ते रत्नकोटयः ॥ ८१ ॥
मर्तुमिच्छोः कपिच्छद्मा नूनं कस्यापि दिक्पतेः ।
प्रणिधिः प्राणवात्सल्याच्छन्नश्चरसि नः पुरीम् ॥ ८२ ॥
यत्सत्यं रामदूतस्त्वं लक्ष्यसे यदितः शनैः ।
विमार्गन्निव वैदेहीमशोकवनिकामगाः ॥ ८३ ॥
१. BC राननैः २. BD तिः ३. BD वा । ४. A सुकुमारेषु कस्त।
२४
१८५