रामचरितम् /215
This page has not been fully proofread.
एकविंशः सर्गः ।
लसद्भिर्विविधोष्णीषरत्नालीकिरणोत्करैः ।
वितानान्तरमातन्वन्निव चित्रपटीमयम् ॥ ४८ ॥
दंष्ट्रानिभादिन्दुकलाः कलयन्नसितर्मुखैः ।
कुण्डलीकृतमार्तण्डमण्डलैरिव राहुभिः ॥ ४९ ॥
मुखैर्वलीमुखालोकसघृणैः संहरन्भिव ।
रयं रुषामसदृशं दशभिर्दशनोज्ज्वलैः ॥ ५० ॥
स्वासिलून पुनर्जातां यशःकुसुमवासिताम् ।
हारनिर्झरिणीं शुभ्रां बिभ्राणः कन्दराटवीम् ॥ ५१ ॥
प्रसिद्धैः स्वभुजस्तम्भैर्विशत्याऽवहसन्निव ।
मणिस्तम्भानसंख्यातान् सभायां सर्वतोदिशम् ॥ ५२ ॥
तुङ्गैरङ्गदपर्युप्तपद्मरागमरीचिभिः ।
दीप्तदर्पदवज्वालमिव बाहुवनं वहन् ॥ ५३ ॥
निष्कोपलच्छेविच्छन्नदिव्यास्त्रग्रामवर्त्मना ।
वक्षःस्थलेन रुन्धानो यशःपूरं मरुत्पतेः ॥ ५४ ॥
सप्तानामपि सिन्धूनां गत्वा पारमिवागतम् ।
निजं यशो हारनिभाद्विशालेनोरसोद्न् ॥ ५५ ॥
हरिचन्दनविच्छित्तिमः स्वेदद्रवां दधत् ।
कैलासादिव संक्रान्तां धातुपङ्कतरङ्गिणीम् ॥ ५६ ॥
अन्तः सीतानुबन्धेन बहिः कश्मीरजन्मना ।
हृदयं हृदयोतीर्णो वहन्त्रागबलास्कृतम् ॥ ५७ ॥
आरूढो मणिपर्यङ्कमातङ्क इव सज्जनम् ।
नीलकौसुम्भलक्ष्येण कामक्रोधाविवोद्वहन् ॥ ५८ ॥
विशेषितावलेपोष्मा दुर्निवाराघमाक्षिकः ।
दोधूयमानैरनिशं तैर्वालव्यजनैरपि ॥ ५९ ॥
१. Aमि। २. BC D रुचि । ३. BD साव । ४. BD वं वहन् । ५. ABशी । ६. Bङ्ग।