This page has not been fully proofread.

रावणसल्लापो नाम
 
विद्युज्जिहादयस्ते च तीक्ष्णास्तं हरिपुङ्गवम् ।
अपूर्वोत्सुक्यसंमुक्तपयार्या': पर्यवारयन् ॥ ३६ ॥
तत्क्षणोढप्लवङ्गास्याः स्वास्यभडम्बयन् ।
मायाविनः स्वलाङ्गूलैस्तल्लाहूलमतर्जयन ॥ ३७ ॥
 
गन्धमाघ्राय रामस्य क्षुब्धाः पवननन्दने ।
विवव्रुः क्रूरमाकारं ताटकायाः सनाभयः ॥ ३८ ॥
 
त्रिशिरःखरमारीचदूषणस्मरणोद्भवम् ।
मन्युमैच्छन् कपो॑ौ तस्मिन्विमोक्तुं निकषासुताः ॥ ३९ ॥
 
आरूढव्रणबीभत्समुखी शूर्पणखीति सा ।
स्वसा राक्षसराजस्य वैरानलमदीपयत् ॥ ४० ॥
 
अनाश्रयो वृद्धगिरामयं मे दुहितुः सुतः ।
तद्गच्छामीत्युवाचान्तः सशल्य इव माल्यवान् ॥ ४१ ॥
 
सहस्रमरुणाक्षाणामयुतं हरिचक्षुषाम् ।
कोटिस्तं कोटराक्षाणामीक्षांचक्रे वलीमुखम् ॥ ४२ ॥
 
रामदूतः कपिरयं रक्षोभिर्वत लुप्यते ।
किं नः सांप्रतमित्यूचुरशक्ता: सुरचारणाः ॥ ४३ ॥
एधयित्वा तमाशीर्भिर्मुनयः शङ्कितात्ययाः ।
ययुस्त्वरितमालोक्य पौलस्त्यै पुलहादयः ॥ ४४ ॥
वञ्चयित्वाऽऽननश्रेणीं रावणस्य शनैः शनैः ।
ववल्ग वीणां विश्रम्य रणकेलिकलो मुनिः ॥ ४५ ॥
राक्षसेन्द्रनियोगेषु द्रष्टुकामाः कपेः क्रियाः ।
उपाविशन् पुनर्देवाः प्रहस्तोत्थापितों अपि ॥ ४६ ॥
तस्य साहायकं रुद्राः करिष्यन्त इवापदि ।
कारणान्तरमालम्ब्य व्यलम्बन्त सहाम्बिकाः ॥ ४७ ॥
 
१. A मर्यादाः । २ BCD नि । ३ B C नौकसं । ४. स्त्य । ५. B C D पौलस्त्योत्सारि ।