This page has not been fully proofread.

एकविंशः सर्गः ।
 
इन्द्रजित्पाशनिष्पन्दे कपिन्द्रे तत्र सीदति ।
निकुम्भो निधनारम्भमनायासमचिन्तयत् ॥ २४ ॥
 
विससर्ज विरूपाक्षः क्षोभमल्पे वनौकसि ।
शोणिताक्षस्तमक्षस्य तत्वरे नेतुमध्वना ॥ २५ ॥
 
अपि तं मुक्तसंरक्षमपि रक्षःपुरस्कृतम् ।
अपि नम्रमपि प्रांशुः पिशाचो न व्यलङ्घयत् ॥ २६ ॥
 
केयमिन्द्रजितः श्लाघा सखे शाखामृगं प्रति ।
इत्यवादीन्मह(कायमतिकाय: समुल्लसन् ॥ २७ ॥
सुपार्श्व पार्श्वतोऽपृच्छन्महापार्श्वो महाबलः ।
अयं स वाली न भवेद्येन लङ्केश्वरो जितः ॥ २८ ॥
 
अझयहं वानरमिमं नराणा सुहितो भवान् ।
इति सोत्प्रासमसकृद्धसो विघसंमब्रवीत् ॥ २९ ॥
हस्तिकर्णहयग्रीवौ राक्षसौ राजवल्लभौ ।
युगपद्ग्रासरभसावग्रतस्तममार्गताम् ॥ ३० ॥
अपूर्वः प्रातराशोऽयमद्य मे समुपस्थितः ।
'ववलग विताकृतिरितिवादी महोदरः ॥ ३१ ॥
किं न पिष्टः शतघ्नीभिः गुम्फणैः किं न सूदितः ।
इत्यवोचत्समुच्छ्रस्यै दशकण्ठसुहृच्छठः ॥ ३२ ॥
अभि तं कपिमार्तण्डमास्थानगगनोदरे ।
प्रजर्ज घनाघोषो विद्युत्
 
निशाचरः ॥ ३३ ॥
 
विचित्रवेषाकृतयस्तास्ताः कौणपजातयः ।
ताभिस्ताभिर्विकृतिभिर्दूरतस्तमतर्जयन् ॥ ३४ ॥
 
आहरनपरे तस्माद्विस्मयक्षणपातिताम् ।
स्ववीर्योष्मारूणां दृष्टिं वज्रदंष्ट्रादयो भटाः ॥ ३५ ॥
 
१. D. द्वशोविन्ध्यस । २. A ल्मासैः । ३. A तमुद्दिश्य । ४. BCD भोगो । ५. B.Cलि