रामचरितम् /212
This page has not been fully proofread.
रावणसल्लापो नाम
सज्वालमित्र कैश्याभि': सव्यालमिव बाहुभिः ।
सज्योत्स्नमिव दंष्ट्राभिः सविद्युदिव दृष्टिभिः ॥ १२ ॥
अत्यर्घितबलात्कार मतिसंस्तुतसाहसम् ।
अतिशीलितपारुष्यमतिशिक्षितवैकृतम् ॥ १३ ॥
अनुभूतान्वयामोदं व्यतिरेकभयोज्झितम् ।
उद्दामविक्रमगुणं प्रणुन्ननययन्त्रणम् ॥ १४ ॥
उल्कामुखशताकीर्ण विद्युजिह्वशताचितम् ।
दंष्ट्राल शतसंबाधं करालशतसंकुलम् ॥ १५ ॥
दूरदन्तमभापीठं दंष्ट्रासङ्कटमन्तिकात् ।
न केवलं प्रहरणैर्घोरमाभरणैरपि ॥ १६ ॥
यत्सत्यं रावणास्थानमालोक्य हनुमानपि ।
तत्पूर्वातिथिभावाय साध्वसाय ददौ मनः ॥ १७ ॥
स्थितं विनीतमिव तं मेघनादोक्तविक्रमम् ।
कपिं ददृशुरुजीवा दशग्रीवसभासदः ॥ १८ ॥
हनुमद्दर्शनक्षुब्धा सा रक्षैःपरिषद्धभौ ।
संवर्तपवनावर्तघूर्णितेव घनावली ॥ १९ ॥
बहवस्तं सभाशूराः क्रीडाकपिमकल्पयन् ।
अन्ये निश्चिक्युरन्यायविपाकं तमुपस्थितम् ॥ २० ॥
अश्रद्धयेव काक्षेण मकराक्षस्तमैक्षत ।
वासवद्विषि विश्वासाद्धूम्राक्षो न व्यतर्कयत् ॥ २१ ॥
कदनेन कुमाराणां शुकः शोकं समाविशत् ।
सारण: कारणान्वेषी चिरं चिन्तापरोऽभवत् ॥ २२ ॥
सीताहरणपुष्पस्य फलबन्धः कियानपि ।
जातोऽयमिति संचिन्त्य विषसाद विभीषणः ॥ २३ ॥
१. D केश्यासिः । २. A राद्दत्तप्रभावाटं । ३. BCD मालोक्याचक्रुरुद्वितः । ४, B रक्षसः ।