This page has not been fully proofread.

एकविंशः सर्गः ।
 
अथैकविंशः सर्गः
 
वीरैर्महार्हाभरणैर्मणिपीठनिषादिभिः
अवाप्तपूर्ज पुरतः पुरुहूतजयोद्धुरैः ॥ १ ॥
 
विदूरतः प्रतीहारमन्दादर निवेदितैः ।
दिक्पालदूतनिवर्हेरुपनींतमहोपदम् ॥ २ ॥
 
अलब्धासनमादित्यैर्दैत्यैः प्राप्तसभाजनम् ।
स्वैरोक्तशापं पितृभिर्मातृभिः स्तुतसाहसम् ॥ ३ ॥
 
अप्रवेशितकीनाशमसंभावितपावकम् ।
अनुदीक्षितनिष्क्रान्तसप्तविष्टपनायकम् ॥ ४ ॥
घोराभिचारमीमांसामुखरब्रह्मराक्षसम् ॥
निष्कास्यमा नकरुणामूकब्रह्मर्षिमण्डलम् ॥ ५ ॥
प्रकामासृङ्मधुक्षीबैस्त्रिजगत्क्षयदीक्षितैः ।
रक्षोयुवभिराक्षिप्तं महाभैरवडम्बरम् ॥ ६ ॥
विलासहसितस्वर्गं लीलाजितरसातलम् ।
समवेतमहायोधभरबन्धुरितावान" ॥ ७ ॥
कथा कैव नृशंसानामधिभित्ति लेंसत्करैः ।
रत्नैरपि गलेहस्तं दूरादेव ददे दृशम् ॥ ८ ॥
निष्कनायकपादाग्रविमृष्टाशनिलाञ्छनैः ।
उदीर्णपाकाजत्पाकं प्रवीराणामुरःस्थलैः ॥ ९ ॥
आयस्तस्फटिकासन्दीविटङ्क रुचिवीचिषु ।
आमौलिनायकान्मग्नप्रधानरजनीचरम् ॥ १० ॥
 
१७९
 
यथाश्रेणि निविष्टानां रक्षसां रसनालिभिः ।
प्रत्युक्तासिलतापालीपरिक्षेपपरम्परम् ॥ ११ ॥
 
१.BC जां । २. B भिः । ३. BC मण्डलं । ४. BCD निम् । ५. Aप्र । ६. A रेव । ७. A दद्दू ।