This page has not been fully proofread.

१७८
 
रावणसल्लापो नाम
 
विध्वस्तं विपिनमनेन तत्समस्तं ते नीताः प्रलयमनेन मन्त्रिपुत्राः ।
अत्रान्तं झगिति जगाम जम्बुमाली दीप्तेऽनाविह शलभत्वमाददेऽक्षः॥ ९६ ॥
ओघो मे शरसरितामनेन तीर्णः तन्नो च्चैः फलितमिहासिकाननं मे ।
वीरात्मा ह्य्यमहरन्ममासिधेनू : लब्धं मे विवरमनेन बाहुयुद्धे ॥ ९७ ॥
यत्सत्यं जयति समीरणं जवेन क्रुद्धोऽयं लघयति पावकं प्रभाभिः ।
नैतस्य प्रतिसदृशो मयाऽनुभूतः संप्राप्तः कथमपि मायया मयाऽयम् ॥ ९८ ॥
सामान्यप्लवगधियं न तातपादाः कुर्वन्तु प्रकटविशेष एष कोऽपि ।
इत्युक्त्वोपहितनिराकुलप्लवङ्गः स स्वस्यां भुवि निषसाद मेघनादः ॥ ९९ ॥
 
ऍकः परं संप्रति सत्क्रियाभिः मनीपिषु व्याकुरुते विशेषम् ।
निबन्धनिर्वाहपरिश्रमज्ञो महाकविश्रीयुवराजदेवः ॥
 
कि शीधुभिर्भवतु फाणितशर्कराद्यैः किंवा सितासहचरैः कथितैश्च दुग्धैः ।
दुग्धाऽब्धिलब्ध सुधयाऽपि न किञ्चिदेव यत्राभिनन्दसुकवेर्विचरन्ति वाचः ॥
नाश्चर्यमावहति कस्य चराचरेऽस्मिन् श्रीहारवर्षनृपचन्द्रमसः प्रभावः ।
येनानिशं ललितकोमलकाव्यमूर्तेः सृष्टोऽभिनन्दकुमुदस्य महाविकासः ।
 
इत्यभिनन्दकृतौ रामचरिते महाकाव्ये हनुमद्रहणो नाम
विंशतितमः सर्गः ॥
 
१. BCDE उच्चोऽब्धिः सच । २. BC च्चो । D तेनो । ३. BC D स्ति ४. B C D ते । ५. A
धाराला अ । ६. BC नुं । ७. BCDE omit this sloka. ८. B C D read these two slokas.