This page has not been fully proofread.

विंशः सर्गः ।
 
१७७
 
प्रहरन्तमायुधविशेषवृष्टिभिस्तलमुष्टिदन्तनखपुच्छ्साधनः ।
तमु॒दग्रशृङ्गन्मृषभ॑ः स दर्पवान् कापरुम्बशृङ्गेककुदः समासदत् ॥ ८४ ॥
तदपास्तनिष्फलनिजास्त्रयोस्तयोर्घटनं नियुद्धकरणैरशोभत ।
मलयमभञ्जनञ्जवप्रविष्टयोः कनकाद्रिकज्जलमहीध्रयोरिव ॥ ८५ ॥
अनयमिपात्य पवितेजसं शयं कपिरिन्द्रशत्रुमपि जीवसंशयम् ।
चरमं स तेन जगृहे चिरोषितक्षतजापगाभिमुखवीचिरोषितः ॥ ८६ ॥
पितुरग्रसस्तमुरुसाहसो दधौ समितिर्ममज्जै सहसा हसोदधौ ।
 
स बहन्बभौ न विनयं वनालयः प्रथमोद्धतस्यै हि विडम्बनालयः ॥ ८७ ॥
 
मम बाल्य एव स गतः समक्षतां कुपितः प्रसन्नवदनश्च वासवः ।
अयमद्य चोसमशिरःपणार्जितत्रिजगत्प्रभुत्वरभसो दशाननः ॥ ८८ ॥
इयती कुतः सुरपतेरुदग्रता न च संपदां धनपतेरियान् भरः ।
स्फुरितं प्रचण्डमहसोऽपि नेदृशं नच भीषणत्वमिदमन्तकस्य वा ॥ ८९ ॥
का सुखं मुहूर्तमपि सर्वशङ्किनो नर्ययन्त्रितस्य मरुतामधीशितुः ।
सुदृढैकँदण्डविनिबद्धसंपदः परमस्य विश्वजयिनः सुजीवितम् ॥ ९० ॥
अयमाहितांद्रितनयाचमत्क्रियः पुरतो हरस्य हसितोज्ज्वलाधराम् ।
दहने घनास्त्रगुरुभिर्जुहमुखै: जुहवांचकार मुखराजिमात्मनः ॥ ९१ ॥
अयमेव भूमिनिहितकेजानुना जनयन्निनादमयमम्बरोदरम् ।
भयविद्रुतप्रमथमुक्तकन्दरं गिरिमुज्जहार हरकेलिमन्दिरम् ॥ ९२ ॥
वरुणोऽयमस्ति निभृतोऽङ्घ्रिसंनिधौवरुणोऽयमानमति भक्तिमानिव ।
मम तातमप्यनिशमादिशत्ययं ममताऽनलस्य विहताऽमुनोष्मणि ॥ ९३ ॥
तमसे नमः सरजसे ययोरयं निचयस्त्रिलोकविजयी विराजति ।
 
परमा विभूतिरिह चार्थकामयोरवशस्त्रिवर्गयुगपूर्वराडैयम् (१) ॥ ९४ ॥
इति चेतसैव तमुदीक्ष्य मारुतिः स्तुतिपेशलामिव जगाद भारतीम् ।
अपकर्तुमप्युपगता महाशयाः स्फुटपौरुषेषु न भजन्ति मत्सरम् ॥ ९५ ॥
 
१. A भं । २. A स्यवरक । ३. A सत्त्व । ४. BD र्तिममार्ज ५. A द्यतस्य न । D द्धव ।
६. CD७. A भटै । ८. BC रखाम् । ९ BD मितेन । १०. A यात्र ११.A दयम् D इसम्
१२. D ह्रियामया । १३. A योर, १४. A उ ।