रामचरितम् /207
This page has not been fully proofread.
विंशः सर्गः ।
शिशुचापलाच रविमभ्युपेयुषः कुलिशायुधेन कुलिशाहतिव्यसोः ।
अमृतोक्षितस्य ललतो ममाहताः पवनाद्भयेन महता महर्द्धयः ॥ ६० ॥
प्रतियामि रामगृहिणि क्षणादहं तमुदीक्षसे नियतमस्मदीश्वरम् ।
दशकन्धरान्धतमसच्छिदे चिरादुदितं समेत्य महसामिवोत्करम् ॥ ६१ ॥
१७५
मणिरुन्मयूखततिरेष तावकः प्रियवागहं च हरिवीरशाबकः ।
त्वदिनं' विनोदयात जातनिश्चयः सं रुचामुदीरितजयध्वनिश्च यः ॥ ६२ ॥
कथयामि संनिहितमेव किंनु तं समुपेतमौलकपिचक्रमङ्गदम् ।
दिशति द्विषां कथमपि स्मृतिं गतो हृदि यो भयाख्यमनुपक्रमं गदम् ॥ ६३ ॥
मलघुष्वमीषु नगनिम्नगोदधिक्षितिलङ्घनादिषु निदेशवस्तुषु ।
अगणेयवीरहरिवाहिनीपतेरहमस्य हस्तविशिखो वलीमुखः ॥ ६४ ॥
नरदेवि देहि नियमं करोमि कि किमिमाः क्षिपामि विकृताः क्षपाचरी: ।
प्रकटीकृतात्मतनुरुत्खनामि किं निखिलानशोकवनिकातरूनिमान् ॥ ६५ ॥
प्रणिहन्मि कानपि किमस्रपानहं कतिचित् पिनष्मि किमरे: शिरांसि वा ।
पुरमुद्धरामि किमिमां सपर्वतां प्रतियामि मूर्ध्नि भवतीं विधाय किम् ॥ ६६ ॥
न ममात्ययः क्वचिदपीह कश्चन क्षितिपुत्रि विश्वसिहि देहि मे गिरम् ।
करवाणि रावणशिरोमणीनितः स्वपदोपमर्ददलितप्रभाङ्कुरान् ॥ ६७ ॥
मुदितेव राजतनया तमब्रवीद्वज साधयं प्लवगराज मा चिरम् ।
अभिकाङ्क्षितानि भवते महर्द्धयो ददतु घुमार्गचलिताय देवताः ॥ ६८ ॥
न विरोदिमि श्वसिमि नोष्णमप्यहं न मुहुर्निरौमि न करोमि साहसम् ।
असुहेतवो हि मम संनिधापिताः सुतरां त्वयाऽऽर्यसुतपादपसिवः ॥ ६९ ॥
कैपिराज गच्छ पुनरेहि राघवद्वितयेन तेन सह तीर्णतोयधिः ।
नय मां तथा सति यथेच्छमिच्छति प्रियमङ्गना हि कृतकृत्यमीक्षितुम् ॥ ७० ॥
कथय प्रतिश्रुतमहार्जिकर्मणे मम लक्ष्मणाय पुनरुक्तमाशिषः ।
तव राज्ञि तत्र मदधीशवल्लभे न वहिर्भवन्ति वचनानि किचुँ मे ॥ ७१ ॥
१ C स्विदिति॑ि । D त्वदितं । २ A स्व ३. B C D E व्रजवत्स तिष्ट । ४. A ब्धि ५. A तु