This page has not been fully proofread.

१७४
 
हनुमद्ग्रहणी नाम
 
नलिनीष्वनिद्रनलिनासु
 
निश्वसित्यलिनीषु मञ्जुमणितासु मुह्यति ।
रजनीषु चन्द्रधवलासु धावति स्फुटमत्र तत्रभवतीं विलोकयन् ॥ ४८ ॥
स परिस्खलन् परिसरेषु तेष्वपि प्रततानघप्रथमसस्य॑राजिषु ।
श्लथमुष्टिकृष्टविशिखासनः शनैरनुजेन तेन रुदताऽवलम्ब्यते ॥ ४९ ॥
 
स विलोलबाहुयुगलः स्खलत्पदो हृदि दत्तपाणिरनुजन्मना मुहुः ।
अवलोक्यते हरिणकैरुदश्रुभिस्तव कारणेन करुणां दशां गतः ॥ ५० ॥
घटमानबालघनकोमलाम्बराः प्रतिदिग्विजृम्भितकदम्बवायवः ।
अगमन्नगाग्रतरुषु त्वदीशितुः दिवसाः कथञ्चिदवशेषितासवः ॥ ५१ ॥
तव सुप्रवृत्त्यधिगमोग्रमामृतप्रतिरुद्धघोरमदनाग्निवेदनः ।
अधुना स चिन्तयति मन्त्रिभिः समं समरापदानमवेलम्बमात्मनः ॥ ५२ ॥
कमलासनप्रतिसमः स जाम्बवान् विनतो नतश्च कविजीवसंनिभौ ।
तव यान्ति भर्तुरपरे परश्शताँ वितते वितर्कतमसि प्रदीपताम् ॥ ५३ ॥
 
सुरशिल्पिस्नुयुतस्य शिल्पिनामधिपो नलः कमलपत्रलोचने ।
शिखिनः सुतो नयति नील इत्यसौ नियुतं शतेन हतमुत्तमौजाम् ॥ ५४
 
नवतिग्मदीधितिकडारलोचनो नवतिप्रतीतपृतनापतीश्वरः ।
जयति च्छलप्रधनविभ्रमातुलः मतलायुधो दधिमुखश्च मातुलः ॥ ५५ ॥
 
श्वशुरः सुषेण इति चास्मदीशितुः गणनादरिद्ररणलालसानुगः ।
व्रणमाशु रोपयति भीषणं दृशा निषधादिसर्व कुलशैलसानुगः ॥ ५६ ॥
 
रणदोहदोद्धृतमहामहीधराः शरभादयः प्रथमयूथपाञ्च ते ।
हसितप्रभञ्जनजवास्तव प्रियं प्रणमन्ति शङ्कुर्हेतपद्मसंख्यया ॥ ५७ ॥
 
प्रसरन्ति संप्रति परीत्य राघवं प्रथयन्त्यमी किमपि देवि लाघवम् ।
निधनं नयन्ति युधि पश्य रावणं समतीत्य सिन्धुमधुनैव लावणम् ॥ ५८ ॥
 
अहमधिरेणुरपि काननौकसां न भवामि रामपरिपार्श्ववर्तिनाम् ।
बहिरेवमादि विरलेशदर्शन: शनकैर्निही नकरणीयमारभे ॥ ५९ ॥
 
१. D शष्प । २. BC वि । ३. BD पिनिस्समं E पुनः समं । ४. B तमाकुल । ५. A पद्ममुखि ।