This page has not been fully proofread.

विंशः सर्गः ।
 
गमिताश्चतुर्दश वनेषु ताः समाः समयः स्वगेहमुपगन्तुमद्य नः ।
हनुमन् व्रज त्वरितमानय प्रियं नयतु प्रसह्य निजगेहिनीं स माम् ॥ ३६ ॥
अवलम्बयैनमवशं निजाग्रजं व्रज गाढतां किमसि लक्ष्मण श्लथः ।
भरतस्य मातुरुपदेशदायिनी निकटं तवापि किमियाय मन्थरा ॥ ३७ ॥
महतामनास्थमवलाजने मनो मम कारणात् किमिति नाथ सीदसि ।
अधिरोपयामि न भवन्तमत्ययं दयितं यशो यदि निहन्यतामरिः ॥ ३८ ॥
 
१७३
 
इति मे रहस्यमिदमञ्जनासुत श्रवणान्तिकं प्रियतमस्य लम्भय ।
परिकुप्यतीव परुषेण चेन्मनागनुनाथयैनमुपगृह्य पादयोः ॥ ३९ ॥
अयमार्यपुत्रचरणान्जसन्निधायुपधीयतां मम शिरोमणिस्त्वया ।
स जनः सदैव निजसिद्धिसंशयी प्लवगेशं विश्वसितु वीक्ष्य मामिव ॥ ४० ॥
 
त्यज संशयं श्वसिति सा तत्र प्रिया हृदयं कठोरमिदमेनया कृतम् ।
इति भाषमाण इव तस्य पादयोरयमश्रु मोक्ष्यति महश्छलान्मणिः ॥ ४१ ॥
चरणौ कुरुष्व विवृणुष्व मूर्धजान् धनुराशुगांश्च निकटे निवेशय ।
विरहातुरस्य मम पत्युरत्ययं मणिरत्न यत्नपरमो निवारय ॥ ४२ ॥
जननीति साँ न परमेव कैकयी विधुरस्य हेतुरियतस्तैवानिशम् ।
दयिताहृयाऽहमपि संप्रति प्रभोः द्विषतीव दुःखशतमाहरामि ते ॥ ४३ ॥
इति रामभद्रसहधर्मचारिणीं॰ धरणीं गतां गिरमुदीर्य मूर्छया ।
उपचारसंभृतमुहूर्तयापनँः कपिरब्रवीन्मधुरशीतलं वचः ॥ ४४ ॥
त्यज देवि संशयमधीश्वरं प्रति त्वमिव त्वदेकहृदयः स ताम्यति ।
प्रतिकारयष्टिशिखरावलम्बनाद्धियते कथंचन परिस्खलन्नपि ॥ ४५ ॥
इयमेति मन्युकुपितेयमीक्षते इसतीय मुल्लसति चेयमन्तिकात् ।
इति स ब्रुवनहसि रूढवेपथुर्भवतीमयं भुवनमेव पश्यति ॥ ४६ ॥
कृपणं न लक्ष्मणमपीक्षतेऽधुना नच वानरेन्द्रमपि सन्दिशत्यसौ ।
जयति प्रपन्नविधुरोचितव्रतो बत जानकीति परमक्षरत्रयम् ॥ ४७ ॥
 
१. BCDE सुचिरेण । २. ACDE मयमेव तद्गतम् । मिदमेतया हृतम् । ३. Bते । ४. BCD
 
तोऽथ । ५. A कापि संप्रति । ६. BCDE चारिणी तदा । ७. A पुनः । D फ्तिः ।