This page has not been fully proofread.

१७२
 
हनुमद्ग्रहणो नाम
 
अधिवासकष्टमटवीषु तादृशं पिशिताशिनः परिभवोऽयमीदृशः ।
प्रगुणेन पश्यति न मे मनः शिवं यदि धैर्यमार्यसुतमत्र रक्षति ॥ २४ ॥
मम कारणात् पितृसखस्य तस्य च श्रुतिमागतेन कृतवान्रघूद्वहः ।
किमुपार्जितेन रजनीचराधमात् कदनेन पक्षपुटयोर्जटायुषः ॥ २५ ॥
विरसत्पिशाचमुखरासभवजः खगराज रावणरथो वृथैव सः ।
 
तव चण्डचञ्चुपुटकोटिताडनाज्झटिति त्रुटन्निपतितो नभस्तलात् ॥ २६ ॥
नियतिर्जयत्यमुमतां न पौरुषं मसभप्रहारकृतसिद्धसंमदैः ।
मदभाग्यदेशितनिगूढैमर्मणा कृपणेन तेन यदकारि स व्यसुः ॥ २७ ॥
विहगेश पाहि सुहृदः स्नुषामिमां किमु में जहासि विरहात्पतत्रयोः ।
अपरित्रमम्बरतलं विलोकयाम्यवलम्बतां क इव मां भवानिव ॥ २८ ॥
 
सुतरां सुदूरमपि तं पुरःस्थवत्प्रतिपन्नशूरमवलोकयाम्यहम् ।
नियतं मदर्प्यधिकमाधिनाऽमुनों हनुमन्न विन्दति शमं रघूद्वहः ॥ २९ ॥
 
इममुत्तरेदुदधिमुद्धरेदरिं स भवद्विधैः सुसचिवैः समागतः ।
पितुरस्य राक्षसहतस्य किं पुनः पवनात्मज प्रियतमः करिष्यति ॥ ३० ॥
कथमेवमादिभिरजस्रमाधिभिर्धियतां धृतोत्सुकरयोऽपि राघवः ॥
अनिलैरनारतहतः कियच्चिरं न महीरुहस्त्यजति मूलमात्मनः ॥ ३१ ॥
धिगुदारतां धिगनुरोधशालितामतिमानुषीं धनुषि धिक् च तां क्रियाम् ।
उपमातिगां धिगर्थं रूपसंपदं स यदायते जनवदस्ति भाजनम् ॥ ३२ ॥
कपयः किमाहुरवलोक्य तं जनं तव च स्थितं मनास मान्य किं पुनः ।
प्रकटीकृतः स खलु कोपि लक्षणैर्व्यसनानि मानुषतनुस्तरिष्यति ॥ ३३ ॥
जगतीक्षितेह पवमानसंभव प्रियजीविताऽहमिव धिक्कृताऽङ्गना ।
दयितस्य दीर्घविरहेऽपि जीविता द्विषतः शृणोति गलगर्जितानि या ॥ ३४ ॥
मिथिलेशपुत्रि रघुनाथवल्लभे हतपार्थिवि क्षममिदं कथं नु ते ।
अधिरोग्य चेतसि किमप्यसंभवं यदरेः पराभवशतैर्न पीड्यसे " ॥ ३५ ॥
 
99
 
१. BC द्धिनृ । २. BCD तडिति । ३. A द्विसंमतः E सम्मदा । ४. BCD संगमनिरू ।
५. BCDE मिमं ६. BCD सदस्य । ७. B. तामुहुः । ८. A जयो । CE जितो । ९. A गनु B गिव
१०. BCDE यशसांपति । ११ A तेन पात्यसै ।